SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९२ हैमनूतनलघु प्रक्रिया अर्तितासि, ऋतीयिष्यते, अर्तिष्यति, आर्तीयिष्यत, आर्तिष्यत् । अथ कण्ड्वादयः । कण्डूग गात्रविघर्षणे । धातोः कण्डवादे र्यक् | ३ |४| ८ || कण्ड्वादिभ्यो | धातुभ्यः स्वार्थे यक् प्रत्ययो भवति । कण्डूयेति, कण्डूयते । कित्त्वान्न गुणः । अत एव कित्करणाद् यक् धातुभ्य एव । द्विधा हि कण्ड्वादयः - धातवः प्रातिपदिकानि चेति ध्येयम् । धातुग्रहणमुत्तरार्थं स्पष्टप्रतिपत्तये इहैव कृतम् ॥ कण्डूयेत, कण्डूयेत्, कण्डूयताम्, कण्डूयतु, अकण्डूयत,अकण्डूयत्, अकण्डूयिष्ट, अकण्डेयिष्ट, अकण्डूयीत्, कण्डूयाश्चकार, कण्डूयाञ्चक्रे, कण्डूयिषीष्ट, कण्डूयिषीद्रवम्, कण्डूयिषीध्वम्, कण्डूय्यात् कण्डूयितासे, कण्डूयितासि, कण्डूयिष्यति, कण्डूयिष्यते, अकण्डूयिष्यत, अकण्डूयिष्यत् ॥ मही वृद्धौ पूजायाश्च ॥ हृणीङ् रोषलज्जयोः ॥ महीयते, हृणीयते, आत्मनेपदिनाविमौ ॥ मन्तु अपराधे ॥ वल्गु पूजामा - घुर्ययोः ॥ मन्तूयति, वल्गयति । परस्मैपदिनाविमौ । दुरज भिषज् चिकित्सायाम् ॥ दुरज्यति, भिषज्यति, दुरज्येत्, भिषज्येत्, भिषज्यतु, अभिषज्यत् ।। योऽशिति | ४ | ३ |८|| व्यञ्जनान्ताद् वातोव्यञ्जनात्पर१ - शवि लुगस्येत्यलुक् । २ - अत इत्यल्लोपः । ३ – दीर्घ वीति दीर्घः । ,
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy