SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९० हैमन्तनलघुप्रक्रिया स्वार्थे ङीयप्रत्ययो भवति । ऋतीयते, ऋतीयेत, ऋतीयताम् , आतीयीत ॥ अशवि तेवा ।।४।४॥ गुपादिभ्योऽशवि विषये आय-णीङ्-डीया वा भवन्ति । अगोपायीत् , अगोपीत , अगौप्सीत् , अगौप्ताम् , गौपायाश्चकार, जुगोप, जुगोपिथ, जुगोपिव, गोपाय्यात् , गुप्यात् , गोपायिता, गोपिता, गोप्ता, गोपायिष्यति, गोपिष्यति, गोप्स्यति, अगोपायिष्यत् , अगोपिष्यत् , अगोप्स्यत् । अधूपायीत् , अधूपीत् । अपणायीत्, अपोणीत् , अपणीत् , अपनायीत् , अपानीत् , अपनीत् । शेषं सेडू गुपिवत् ॥ उपान्त्यस्याऽसमानलोपि शास्वृदितो डे ।४।२।३५॥ समानलोपि शासूक् ऋदनुबन्धवर्जितस्य धातोरुपान्त्यस्यपरेणौ हूस्वो भवति ।। असमानलोपे सन्वल्लघुनि डे ।४।१।६३॥ न 'विद्यते समानस्य लोपो यस्मिन् ङपरे णौ तस्मिन् द्वित्वे सति पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य भवति ॥ सन्यस्येतीत्वमुक्तमिहापि तथेत्याशयः ॥ ११-डीयस्य ङित्त्वादात्मनेपदम् । १२-धूगौदित इति वेट् , अत इत्यल्लोपः । -१-व्यञ्जनादेरिति वा वृद्धिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy