________________
हैमनूतन लघु प्रक्रिया
१८९
"
अशिष्यति, आशिष्यत् ॥ मुषश् स्तेये ॥ मुष्णाति, मुष्णीयात् मुष्णातु मुषाण, अमुष्णात्, अमोषीत्, मुमोष, मुख्यात्, मोषिता, मोषिष्यति, अमोषिष्यत् ॥ पुषश् पुष्टौ ॥ मुष्णातिवत् ॥ ज्ञांश अवबोधने ॥ जानाति, जानीयात्, जानातु जानीहि जानीतात्, अजानात्, अज्ञासीत् जज्ञौ, जज्ञिथ, जज्ञाथ, ज्ञेयाँत, ज्ञायात् ज्ञाता, ज्ञास्यति, अज्ञास्यत् ॥ इति क्रथादयः ॥ ॥ अथ स्वार्थिकायादिप्रत्ययान्ताः ||
"
"
|| गुपौ रक्षणे ॥ गुपौधूप विच्छिपणिपनेरायः | ३ | ४|१ || गुप्-धूपू - विच्छ्र - पण् - पन्-एभ्यो धातुभ्यः पर आयप्रत्ययो भवति स्वार्थे । शबू । गोपायति, गोपायेत्, गोपायतु, अगोपायत् || धूप सन्तापे । पणि व्यवहारे स्तुतौ । पन च ॥ धूपायति, पणांयति, पनायति ॥ कमूह कान्तौ ॥ कान्तिरिहेच्छा ॥
कमेर्णिङ्ग | ३|४|२|| कमेर्धातोः स्वार्थे णिङ् प्रत्ययो भवति । कामयते, कामयेत, कामयतास् । अकामयत ॥ ऋत घृणागतिस्पर्धेषु ॥
ऋतेर्डीयः | ३|४|३|| ऋत् इत्यस्माद् धातो:
६ - जाज्ञेति जादेशः । ७ - संयोगादेर्वेत्येः । ८ - घोरुपान्त्यस्येति गुणः, लुगस्येत्यलुक् । ९-पणिपनी आयप्रत्ययान्तोः परस्मैपदिनौ । १ति वृद्धिः शवि गुणायादेशौ ।