SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया १७७ अविन्दत्, अविन्दत । अविदैत्, अवित्त, अवित्साताम्, विवेद, विविदे, विद्यात्, वित्सीष्ट, वेत्तासि, वेत्तासे, वेत्स्यति, वेत्स्यते, अवेत्स्यत्, अवेत्स्यत ॥ लुप्ती छेदने ॥ लुम्पति, लुम्पते, अलपत्, अलुप्त, लोप्तासि, लोप्तासे ॥ लिपींत् उपदेहे ॥ उपदेहनं विलेपनम् । अलिपेत्, अलिपत, अलिप्त, अलिप्साताम्, शेषं लुम्पतिवत् ॥ कृतैत् छेदने ॥ कृन्तेति, कृन्तेत्, कृन्ततु, अकृन्तत्, अकर्त्तीत्, चकर्त्त, कृत्यात्, कर्तिता, कर्तिष्यति, कर्त्स्यति, अकर्तिष्यत् अकर्त्स्यत् ॥ खिदंत् परिघाते || परिघातो दैन्यम् । खिन्दत्ति, अखैत्सीत्", अखैत्ताम्", चिखेद, खेत्ता, खेत्स्यति, अखेत्स्यत् ॥ पिशत् अवयवे ॥ विंशति, अपेशीत्, पिपेश, पेशिता, ॥ त्रयः परस्मैपदिनः ॥ अष्टौ मुचादयः ॥ मृत् प्राणत्यागे ॥ म्रियतेरद्यतन्याशिषि च | ३ | ३ | ४२ || म्रियतेरद्यतन्याशीर्विषयात् शिद्विषयाच्च कर्त्तर्यात्मनेपदं भवति । म्रियते, म्रियेत, म्रियताम्, अम्रियत, अमृतें, अमृषाताम् ममार, ५-कृदित्वादङ् । ६ कित्त्वाद् गुणाभावे धुडिति सिज्लुकि अघोषे प्रथमः । ७- म्नामिति पञ्चमः । ८ - वालिप्सिच इत्यङ । आत्मनेपदे वात्मने इति 'वाऽङ् । ९-म्नामिति पञ्चमः, बहुवचनसामर्थ्याच्च न णः । १०- कृतछ्रुदेति वेट् । ११ - व्यञ्जनानामिति वृद्धिः । १२ - वृद्धौ धुंडित सिज्लुक् । '१३ - शिड्डे इत्यनुस्वारः । १४ - रिः शक्येति रिः । संयोगादितीय् । १५-ऋवर्णादिति कित्त्वान्नगुणः, हस्वादिति सिज्युक १२
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy