SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५६ हैमनूतनलघुप्रक्रिया ईकारो भवति, दासंज्ञं वर्जयित्वा । जहितः, जहीतः, जहति । जहिथः, जहीथः । जहिमः, जहीमः ॥ यि लुक ।४।२।१०२॥ यकारादौ शिति प्रत्यये परे जहातेरन्तस्य लग् भवति । जह्यात् , जहातु, जहितात् , जहीतात् । जहतु ।। ___ आ च हौ ।४।२।१०१॥ द्वयुकास्य जहातेहौं परे आकार इकारश्च वा भवति । जहाहि, जहिहि, जहीहि । जहितात् , जहीतात् , जहानि । अजहात् , अजहुः । अहासीत् । जहौ, जहः, जहिथ, जहाथ । जहिम । हेयात् । हाता, हास्यति, अहास्यत् । त्रिभीक भये । बिभेति ॥ भियो नवा ।४।२।९९॥ विभेतेयंञ्जनादौ शित्यविति प्रत्यये परे अन्तस्येकारो वा भवति । बिभितः, बिभीतः, बिभ्यति । बिभिमः, बिभीमः । बिभियात् , बिभीयात् , विभेतु, बिभितात् , बिभीतात् , बिभिहि, विभीहि, विभयानि । अविभेत् , अबिभिताम् , अबिभीताम् , अविभयुः, अविभयम् , अभैषीत् , विभयाञ्चकार । पक्षे-बिभाय, विभ्युः, बिभयिथ, बिभेथ, बिभ्यिम, भीयात् , भेता, भेष्यति, अभेष्यत् ॥ ह्रींक लज्जायाम् । जिहेति, जिहियंति, १-भश्चात इत्यालुक् । २-इडेदित्यालुक् । ३-गापोस्थेत्येः । ४-योऽनेकस्वरस्येति यः । ५-पुस्पाविति गुणः । ६-दीर्घश्च्वीति दीर्घः । ७-द्विद्भावाद् गुणाप्राप्तौ संयोगादितीय ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy