________________
हैमनूतनलघुप्रक्रिया वादयः शिति परे द्विर्भवन्ति । जुहोति, जुहुतः, जुवति," जुहोषि, जुहुथः, जुहुथ । जुहोमि, जुहुवः, जुहुमः । जुहुयात् । जुहुयुः । जुहोतु, जुहुतात् । जुहुधि, जुहवानि, अजुहोत् , अजुहुताम् , अजुहवु:, अजुहोः, अजुहुत, अजुहवम् । अहौषीत् , अहौषुः, अहौष्ट ॥
भीहीभृहोस्तिव्वत् ।३।४।५०॥ भी-ही-भृ-हु इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति, स च तिव्वत्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । तिव्वद्भावाद् यथायथं द्वित्वमित्वं च । जुहवाञ्चकार । पक्षे-जुहाव, जुहुवुः, जुहविथ, जुहोथ, हूयात् , होता, होष्यति, अहोष्यत् ॥ ओहांक त्यागे। जहाति ॥
हाकः ।४।२।१००॥ जहातेद्वर्युक्तस्य व्यञ्जनादौ शित्यविति प्रत्यये परे अन्तस्येकारो वा भवति ॥
एषामीय॑ञ्जनेऽदः।४।३।९७॥ एषां द्वयुक्तजक्षपञ्चनाप्रत्ययान्तानामाकारस्य शित्यविति व्यञ्जनादौ परत
९-नामिन इति गुणः । १०-ङित्त्वान्न गुणः । ११-अन्तो नो लुक् , हिवणोरिति वः । १२-हुधुट इति धिः । १३-गुणावादेशौ । ९४-द्वयुक्तजक्षेति पुसि पुस्पाविति गुणः । १५-तिव्वद्भावाद् हवः शितीति द्वित्वे गहोरिति जत्वे गुणावादेशौ । तौ मुम इत्यनुनासिकानुम्वारौ ।