SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५२ हैमनूतनलघुप्रक्रिया परस्य स्तुस्वञ्जोर्धात्वोरसोङ् सिवुस्सहस्सटां च सकारस्याटि सति षो वा भवति । पर्यष्टौत् । पर्यस्तोत् , अस्ता. वीत् , तुष्टाव, तुष्टुवुः, तुष्टोथ, स्तूयात् , स्तोता, स्तोप्यति, अस्तोष्यत् । स्तुने, स्तुवते, स्तुवीत, स्तुताम् , अस्तुत, अस्तोष्ट, अस्तोवम् , अस्तोड्ठ्वम् , तुष्टुवे, तुष्टुषे, तुष्टुवे, स्तोषीष्ट, स्तोता, स्तोष्यते, अस्तोप्यत ॥ ब्रूगक व्यक्तायां वाचि ॥ ब्रूगः पञ्चानां पश्चाहश्च ।४।२।११८॥ ब्रूगः परेषां तिवादीनां पञ्चानां स्थाने यथासंख्यं पश्च णवादय आदेशा वा भवन्ति, तत्सनियोगे ब्रूग आह इत्यादेशश्च भवति । अकार उच्चारणार्थः । आह, आहतुः, आहुः । आत्थ आहथुः। ब्रूतः परादिः ।४।३।६३॥ तेरुकारात्परो व्यञ्जनादौ विति प्रत्यये परे परादिरीद् भवति । ब्रवीति, ब्रुवन्ति । ब्रवीषि, बूथ । ब्रूते, ब्रुवते, ब्रूयात् , ब्रुवीत । ब्रवीतु, ब्रूतात् , बहि, बवाणि । व्रताम् , भ्रूष्व, अवै । अब्रवीत्, अब्रूताम् , अब्रवम् । अब्रूत । अब्रुवि । अवोर्चत् । अवोचत । १-धूग्सुस्तोरिट् , सिचि परस्नै इति वृद्धिः । २-स्क्रनिति नेट् । ३दीर्घश्वि । ४-अघोषे शिटः । नाम्य-तस्थेति षः, तवर्गस्येति ट: । ५-नहाहोरिति तः । ६-ङित्त्वाद् गुणाप्राप्तावुव् । ७-बूत इतीट् । ८-शास्त्यसू इत्यङ् । श्वयत्यसू इति वोचादेशः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy