________________
लघु प्रक्रिया
१४७
वाद्यतनी क्रियातिपच्योर्गी |४|४|२८|| अद्यतनीक्रियातिपन्योः परत इङो गीङादेशो वा भवति । अध्यगीष्ट, अध्यगीषत । अध्यगीध्वम्, अध्यगीड्वम् । पक्षे - अध्यैष्ट, अध्यैषाताम्, अध्यैषत ।।
गाः परोक्षायाम् | ४|४|२६|| इङः परोक्षाविषये गादेशो भवति । अधिजगे । अधिजगाते, अधिजगिषे । अध्येषीष्ठ, अध्येता, अध्येष्यते, अध्यगीष्यत, अध्यैष्यत ॥ शी स्वप्ने ॥
शीङ एः शिति | ४ | ३ | १०४ || शीङः शिति परे एकारान्तादेशो भवति । शेते, शयाते ॥
शीङो रत् |४| २|११५ || शीङः परस्याऽऽत्मनेपदसम्बन्धिनोऽन्तो रत् इत्यादेशो भवति । शेरते, शयीत, शेताम्, शेरताम् । शयै । अशेत, अशयाताम्, अशेरत । अशयिष्ट । अशयिद्वैम्, अशविध्वम्, अशयिडूवम् । शिये, शिश्यिरे । शिश्यिदूवे, शिश्यिध्वे । शयिषीष्ट, शयिषीद्वम्, शयिषीध्वम् । शयिता, शयिष्यते, अशयिप्यत । पूङौक प्राणिगर्भविमोचने ॥ सूते, सुवाते, मुवीत, सूताम् ॥
१- गीङिति ङित्करणान्न गुणः । २- परोक्षायां विषये इङो गादेशे द्विस्वादौ गस्य जः, इडेदित्यालुक् । ३ - हान्तस्थेति वा ढः । ४- कित्त्वाद् गुणाभावे योऽनेकस्वरस्येति यः । ५-- ङित्त्वाद् गुणाभावे उबू ।