SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ દ્ मनूत लघुप्रक्रिया अस्तेः सहस्वेति | ४ | ३ |७३ || अस्ते सकारस्य सकारादौ प्रत्यये परे लुगू भवति, एकारे तु प्रत्यये सकारस्य हकारः । असि स्यात् । अस्तु, स्तात् । ऐधि । असानि । आसीत्, आस्ताम् ॥ अस्तित्रुवोर्भूव चावशिति | ४|४|१|| अस्तिब्रुवोयथासंख्यं भू वच् इत्येतावादेशौ भवतोऽशितिप्रत्यये विषयभूते । अभूत् । बभूव, भूयात्, भविता भविष्यति, अभविष्यत् ॥ प्रादुरुपसर्गाद्यस्वरेऽस्तेः | २|३|५८ || प्रादुःशब्दादुपसर्गस्थाच्च नाम्यन्तस्थाकवर्गात्परस्यास्तेः सकारस्य यकारादौ स्वरादौ च प्रत्यये परे षो भवति शिनान्तरेऽपि । प्रादुष्ण्यात् । निषन्ति । निःषन्ति । दुःषन्ति ॥ इत्यदादयः परस्मैपदिनः ॥ अधादादय आत्मनेपदिनः || I इंक अध्ययने || अधिपूर्व एवाऽयं प्रयुज्यते । अधीते, अधीयाते । अधीयते । अधीयीत । अधीयीयाताम् । अधीताम् अधीयाताम् । अधीष्व । अध्ययै । अध्ययामहे । अध्येत । अध्येयाताम् । अध्यैयत । अध्यैयि । अध्यैमहि || १ - शाससित्येध्यादेशः । २- सः सिजस्तेरितीत् । एत्यस्तेरिति वृद्धिः । ३ - लोपापवादत्वादेत्यस्तेरिति वृद्धिरेव । ४- ङित्त्वाद् गुणाभावे धातोरितीयादेशे समानदीर्घः । ५ - गुणेऽयादेशे यः । ६ - स्वरादेरिति वृद्धिः । ७- आदाविय्, पश्चाद् वृद्धिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy