________________
हैमनूतनलघुप्रक्रिया
१४५ परस्य हस्य घो भवति । जघ्नतुः। जघनिथ, जघन्थ । जघ्निम ॥
हनो वध आशिष्यो ।४।४।२१॥ आशीविषये हनो वध इत्यकारान्तादेशो भवति । त्रिविषये तु न भवति । वध्यात् । हन्ता, हनिष्यति, अहनिष्यत् ।। वशक् कान्तौ । कान्तिरिहेच्छा । वष्टि ।।
. वशेरयङि ।४।१।८३॥ वशेः सस्वरान्तस्था अयङि ङिति प्रत्यये वृद् भवति । उष्टः, वर्कि। उश्यात् , वष्टु, उष्टात् । उढि, वशानि । अव , औष्टॉम् , अवट् । अवाशीत् । अवशीत । उवाश, ऊशतुः । उवशिथ । उश्यात् , वशिता, वशिष्यति, अवशिष्यत् ॥ असा भुवि ॥ सत्तायामित्यर्थः । अस्ति ॥ ... ___ नास्त्योर्मुक् ।४।२।९०॥ श्नस्य प्रत्ययस्याऽस्तेश्च धातोरकारस्य शित्यविति प्रत्यये लुग् भवति । स्तः, सन्ति ॥ १-उपान्त्यलोपे विशेषत्वाद् हनो हुन इति बाधित्वा अड़े हीति घः ।
२-हनृत इतीट । ३-यजसृजेति षः, तवर्गस्येति टः । ४-यजसृजेति षः, षढोरिति कः, नाम्यन्तस्थेति षः । ५-हु धुट इति धिः, षः, तृतीय इति डः, तवर्गस्येति ढः । ६-व्यञ्जनादिति दे क् , षः, तृतीयः प्रथमः । ७-८वृति स्वादेरिति वृद्धिः । ८-व्यञ्जनादेरिति वा वृद्धिः । ८-यजादिवशेति वृत् । ९-पूर्व य्वृत् ततो द्वित्वम् ।
१०