________________
१४४ हैमनूतनलघुप्रक्रिया
हनः । १२।३।८२॥ अदुरुपसर्गान्तःशब्दस्थाद्रादेः परस्य हन्ते कारस्थ णो भवति ॥
वमि वा ।२।३।८३॥ अदुरुपसर्गान्तः शब्दस्थाद्रादेः परस्य हन्तेर्नस्य वकारे मकारे च परे णो वा भवति । प्रहण्मि, प्रहन्मि, हन्यात् , प्रहण्यात् । हन्तु, हतात् । घ्नन्तु, जैहि, हुतात् । हत । हनानि । अहँन् , अहताम् , असैन् , अहत ॥ ___अद्यतन्यां वा त्वात्मने ।४।४।२२॥ अद्यतन्यां विषये हनो वध इत्ययमादेशो भवति, आत्मनेपदे तु वा भवति ।
अतः ।४।३।८२॥ अकारान्ताद धातोर्विहितेऽशिति प्रत्यये तस्यैव धातोलुंगन्तादेशो भवति । अल्लोपस्य स्थानियवान वृद्धिः । अवधीत् , अवधिषुः। अवधिष्ट ॥ ... निधि धन् ।४।३।१०१॥ नौ णवि च प्रत्यये परे हन्तेर्धन इत्ययमादेशो भवति । जघाने ॥
अङे हि हनो हो घः पूर्वात् ।४।१॥३४॥ हि-हन्इत्येतयोर्धातोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात् १-महनेत्युपान्त्यलोपः, हनो हो न झंत घ्नादेशः । २-शासस्हन इति जह्यादेशः । ३-ज्यअनादिति दे क । ४-स्द्धामिति से क् । ५-द्वित्वे द्वितीयतुर्ययोरिति गत्वे गहोर्ज इति जः ।