SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया आशिषीणः | ४ | ३ | १०७ ॥ उपसर्गात्परस्येण ईका रस्य क्ङिति यकारादावाशिषि परतो ह्रस्वो भवति । उदियात् ॥ इंक स्मरणे ॥ प्रायेणायमधिपूर्वः । अध्येति, अधीतः ॥ १३४ 1 इको वा | ४|१|१६|| इक् धातोः स्वरादावविति शिति परे यकारो वा भवति । अधियन्ति । अधीयन्ति । शेष - रूपाणीण्वत् । आशिषि तु अधीयात् । वीं प्रजननकान्यसनखादने च ॥ वेति, वीतः, वियन्ति । वीयात् । वे, वात् । वीहि । वयानि, अवेत्, अवीताम् | अवियन् अवयम्, अवीम । अत्रैषीत् अवैषुः । अवैष्टम् । विवाय विव्यु: । विवयिथ, विवेथ । विवाय, विवय । विव्यिम वीयात् । वेता, वेष्यति, अवेष्यत् ॥ पुंक् प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् ॥ 1 " 1 उत औविति व्यञ्जनेऽद्धेः | ४ | ३|१९|| अद्विरुक्तस्यो कारान्तस्य धातोर्व्यञ्जनादौ विति प्रत्यये परे औकारान्त देशो भवति । सौति, सुतः, सुवन्ति । सुयात्, सौत सुतात् । सवानि । असौत्, असुवन्, असवम्, असुम ॥ 1 १ - यत्वाभावे इय् । पश्चात्समानदोर्घः । २- ङित्वाद्गुणाभावे इयू । ३- कित्त्वाद्गुणाभावे योऽनेकस्वरस्येति यः । ४- अविच्छितो ङित्त्वान्न गुणः। ५ - ङित्त्वाद्गुणाभावे उ । ६–अविच्छितो ङित्वान्न गुणः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy