________________
१२२
हैमनूतन लघु प्रक्रिया
चकार, चकर, चक्रे । चक्रम, चक्रमहे ॥
"
1
।
रिः शक्याशी | ४ | ३ | ११० ।। ऋकारान्तस्य धातोः ऋतः स्थाने शे क्ये आशीर्ये च परे रिरादेशो भवति । क्रियांत्, कृषीष्ट । क्रियास्त, कृषीद्वम् । कर्तासि कर्तासे । करिष्यति, करिष्यते । अकरिष्यत् अकरिष्यत ॥ हंग् हरणे ॥ हरति, हरते, हरेत्, हरेत । हरतु. हरताम्, अहरत्, अहरत, अहार्षीत्, अहृत । अहाट, अहृद्वम्, अहृड्वम् । जहार, जह्रे, जहर्थ, जह्निषे, जहू, जह्रिदूवे जहिध्वे । हूियात्, हृषीष्ट । हर्तासि, हर्तासे, हरिष्यति, हरिष्यते । अहरिष्यत् अहरिष्यत ॥ भृंग् भरणे । भृंग धारणे । अनयोर्हधातुवद् रूपाण्यृह्यानि । दुयाग् याञ्चायाम् । याचति, याचते, याचेत्, याचेत, याचतु, याचताम्, अयाचत्, अयाचत । अयाचीत्, अयाचिष्ट । ययाच, ययाचे । याच्यात्, याचिषीष्ट । याचितासि, याचितासे । याचिष्यति, याचिष्यते । अयाचिष्यत् अयाचिष्यत ॥ भजीं सेवायाम् । भजति, भजते, भजेत्, भजेत, भजानि, भजै । अभजत्, अभजत | अभाक्षी, अभक्त । अभाक्ताम्, अभक्षताम् ।
"
1
,
१ - ह्रस्वविधानसामर्थ्याद् दीर्घ च्वीति न दीर्घः । २ - हनृत इतीट् । ३ - इण्निषेधः व्यञ्जनानामिति वृद्धिः । चज इति गः । अघोष इति नाम्यन्तेति षः । ४-धुडिति सिज्लुक्, चज इति गः, इति प्रथमः | ५ - इनिषेधे व्यञ्जनानामिति वृद्धिः, सिज्लुक्, गः, कः । ६ - इग्निषेधे गः कः षः ।
अघोष
प्रथमः