________________
१२०.
हैमनूतनलघुप्रक्रिया. श्रयिषीष्ट, श्रीयास्त, श्रयिषीढ़वम्, श्रयिषीध्वम् । श्रयितासि, श्रयितासे। श्रयिष्यति, श्रयिष्यते। अश्रयिष्यत् , अश्रयिष्यत । णींम् प्रापणे । नयति, नयते, नयेत् , नयेत, नयतु, नयताम् । अनयत् , अनयत, अनैषीत, अनेष्ट । अनेष्टाम् , अनेषाताम् । अनेषुः, अनेपत । अनैष्ट, अनेटवम् , अनेड्ढ्वम् । निनाय, निन्ये। निनयिथ, निनेथ । निन्यिषे । निन्यिढ्वे, निन्यिध्वे । निन्यिम, निन्यिमहे । नीयात् , नेषीष्ट । नीयास्त, नेपोयम् । नेतासि, नेतासे । नेष्यति, नेष्यते । अनेष्यत , अनेष्यत । प्रणयति, प्रणीयते ॥ डुकंग करणे।
कृगतनादेरुः ।३।४।८३॥ कगस्तनादेश्व गणात् कर्तरि विहिते शिति उः प्रत्ययो भवति । करोति ॥
अतः शित्युत् ।४।२।८९॥ शित्यविति प्रत्यये य उकारस्तन्निमित्तो यः कृगोऽकारस्तस्य उकारो भवति । कुरुते, कुरुतः ॥
कुरुच्छुरः ।२।११६६॥ कुरुच्छुरोः सम्बन्धिनो नामि१-इनिषेधे सिचि परस्मै इति वृद्धिः । २-कित्वाद् गुणाभावे योऽनेकस्वरस्येति यः । ३-अदुरुपसर्गान्तरोग इति णः । ४-नामिनो गुण इति उश्नोरिति गुणश्च । ५-शिदविदीति ङित्वान्न गुणः ।