________________
हैमनूतन लघुप्रक्रिया
अथोभयपदिनः ॥
|
ईगितः | ३ | ३|१५|| ईकारेत्संज्ञकाद् गकारेत्संज्ञकाच्च धातोः फलवति कर्त्तय्यात्मनेपदं भवति । अत्र कर्तुः फलवत्वेनाऽविवक्षायां परस्मैपदमेवेत्युभयपदित्वं बोध्यम् ॥ डुपचष् पाके । पचति, पचते, पचेत्, पचेत, पचतु, पचतात्, पचताम्, अपचत्, अपचत। अपेक्षीत, अपक्त । अपाक्ताम्, अपक्षाताम्, अपाक्षुः, अपक्षत । अपाक्षम्, अपक्षि । पपाच, पेचे, पेचिथ, पपक्थ । पेचिषे । पच्यात्, पक्षीष्ट । पक्तासि, पक्ता से । पक्ष्यति, पक्ष्यते, अपक्ष्यत् अपक्ष्यत ॥ श्रि सेवायाम् । श्रयति, श्रयते श्रयेत् श्रयेत, श्रयतु, श्रयतात्, श्रयताम्, अश्रयत्, अश्रयत ॥
,
११९
णिश्रिस्रकमः कर्त्तरि ङः | ३|४|५८ || ण्यन्तात् श्रि- द्रु- सु-कम् - इत्येतेभ्यश्च कर्त्तर्यद्यतन्यां ङ प्रत्ययो भवति । सिजपवादः । अशिश्रियत् । अशिश्रियत । अशिश्रि1 यताम्, अशिश्रियेताम् । अशिश्रियन्, अशिश्रियन्त । शिश्रय, शिश्रिये । शिश्रियतुः शिश्रियाते । शिश्रयिथ, शिश्रियिषे । शिश्रिय, शिश्रियिवे, शिश्रियिध्वे । श्रीयाँत्,
१ - इनिषेवे व्यञ्जनानामिति वृद्धिः । चजः कगमिति कः, नाम्यन्तस्थेति षः । २-धुड् हस्वादिति सिज्लुक्, चज इति कः । ३ - ङे द्वित्वादिकार्ये संयोगादितीय । ४- नामिन इति वृद्धिः । ५- कित्त्वाद्गुणाभावे संयोगादितीय् । ६-हान्तस्थादिति वा ढः । ७- दीर्घ वीति दीर्घः ।