________________
११२ - हेमनूतनलघुप्रक्रिया स्यन्देत, स्यन्दताम् , अस्यन्दत अस्यन्दिष्ट, अस्यन्त । अस्यन्दिषाताम् , अस्यन्त्साताम् , अस्यन्दिषि, अस्यन्सि । अस्यदत् , अस्यदन् । अस्यदः, अस्यदाम । सस्यन्दे, सस्यन्दिषे, सस्यन्त्से, सस्यन्दिमहे । स्यन्दिषीष्ट, स्यन्त्सीष्ट, स्यन्दिता, स्यन्त्ता, स्यन्दिप्यते, स्यन्त्स्यते, स्यन्त्स्यति । अस्यन्दिष्यत, अस्यन्त्स्यत, अस्यन्त्स्यत् ।।
निरभ्यनोश्च स्थन्दस्याऽप्राणिनि ।२।३।५०॥ निरभ्यनुभ्यः परिनिविभ्यः परस्य स्यन्देः सकारस्याप्राणिनि कर्तरि सति षो वा स्यात् । निष्ष्यन्दते निस्स्यन्दते निःस्यन्दते वा तैलम् । एवं परिष्यन्दते, विष्यन्दते इत्यादि । प्राणिनि कर्तरि तु-अनुस्यन्दते हस्ती ।। वृधङ् वृद्धौ । वर्धते, वर्धेत, वर्धताम् , अवर्धत । अवधिष्ट, अवृधत् । ववृधे, ववृधिषे, वर्धिषीष्ट, वर्धिता, वर्धिष्यते, वय॑ति । अवधिष्यत, अवय॑त् ॥ शृधूङ् शब्दकुत्सायाम् । शर्धते, शर्धेत, शर्धताम् , अशर्धत, अशर्धिष्ट, अशृधत् । शशृधे, शशृधिषे, शर्धिषीष्ट, शर्धिता, शर्षिष्यते, शर्त्यति, अशर्षिष्यत, अशय॑त् ॥ कृपौङ् सामर्थ्य ॥
१-धुटो धुटीति वा लुक् । पूर्व तु औदित्त्वादिड्विकल्पे धुड्हस्वादिति सिज्लुगिति ध्येयम् । २-नो व्यञ्जनस्येति नलुक् । ३-औदित्त्वाद्विशेषत्वाद्वेट् । ४-धुटो धुटि । ५-शषसे इति षत्वे षः, विकल्प सः तद्विकल्पे विसर्गः । ६-न वृद्भ्यः, अघोषे इति प्रथमः ।