SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ “११० - हेमनूतनलघुपक्रिया रेफान्ताद् नाम्यन्ताच धातोः परासां परोक्षाद्यतन्याशिषां धकारस्य ढकारादेशो भवति । एधाश्चकुवे । एधाश्चक्रे, एधाञ्चकवहे, एधाञ्चकृमहे। एधाम्बेभूव, एधाम्बभूवतुः, एधाम्बभूवुः, एधाम्बभूषिथ, एधाम्बभूवथुः, एधाम्बभूव, एधाम्बभूव, एधाम्बभूविव, एधाम्बभूविम ॥ अस्यादेराः परोक्षायाम् ।४।१।६८॥ धातोद्वित्वे सति पूर्वस्यादेरकारस्य आकारो भवति । एधामास, एधामासतुः, एधामासुः । एधाँमासिथ, एधामासथुः, एधामास, एधामास, एधामासिव, एधामासिम। एधिषीष्ट, एधिषीयास्ताम् , एधिषीरन् , एधिषीष्ठाः, एधिषीयास्थाम् , एधिषीध्वम् , 'एधिषीय, एधिषीवहि, एधिषीमहि । एधिता, एधितारो, एधितारः, एधितासे, एधितासाथे, एधिताध्वे, एधिताहे, एधितास्वहे, एधितास्महे । एधिष्यते, एधिष्येते, एधिष्यन्ते, एधिष्यसे, एधिष्येथे, एधिष्यध्वे, एधिष्ये, एविष्यावहे, एधिष्यामहे । ऐधिष्यंत, ऐधिष्येताम् , ऐधिष्यन्त । ऐधिष्यथाः, ऐधिष्येथाम् , ऐधिष्यध्वम् , ऐधिष्ये, ऐधिप्योवहि, ऐंधिण्यामहि ॥ अथ द्युतादयः ॥ द्युति दीप्तौ। घोर्तते, धोतेत, धोतताम् , अद्योतत ॥ १-परोक्षान्तभुवोऽनुप्रयोगे ततो बभूवेत्यादिवत्सर्वा प्रक्रिया बोध्या । म्नामिति विकल्पे तौ मुम इत्यनुस्वारो बोध्यः । २-आदेरत आत्वे समानदीर्घः । ३-असस्तृच्यभावात्सृजिशीति न वेट् । ४-स्वरादे. स्तासु । ५-द्युतादयस्त्रयोविंशतिधातुपाठतो ज्ञेयाः। ६-लघोरिति गुणः । - . .. .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy