________________
हैमनूतन लघुप्रक्रिया
अनतोऽन्तोदात्मने |४ |२| ११४ || अनकारात्परस्यात्मनेपदसम्बन्धिनोऽन्तरूपस्य वयवस्य अत इत्ययमादेशो भवति । ऐधिषत । ऐधिष्ठाः, ऐधिषाथाम् ॥
सोधि वा |४| ३|७२ | धातोर्धकारादौ प्रत्यये परे सकोरस्य लुग वा भवति । ऐधिध्वम् ऐधिइदम् । ऐधिषि, ऐधिष्वहि, ऐधिष्महि ।
१०९
"
गुरुनाम्यादेरनृच्छूर्णो | ३ | ४ | ४८ || गुरुर्नामी आदिर्यस्य तस्माद् धातोः ऋच्छ् - ऊर्णुवत् परस्याः परोक्षायाः स्थाने आमादेशो भवति, आमन्ताच्च परे क्रुभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते ||
,
आमः क्रमः | ३ | ३|७५ || आमः परादनुप्रयुज्यमानात्करोतेराम एव पूर्वी यो धातुस्तस्मादिव कर्त्तर्यात्मनेपदं भवति । धातोरात्मनेपदित्वे अनुप्रयुज्यमानात्कृगोऽप्यात्मनेपदमन्यथा तु परस्मैपदमित्यर्थः । एधाञ्चक्रे, एधाञ्चक्राते, एधाञ्चक्रिरे । धाकृषे एधाञ्चक्राथे ॥
नम्यन्तात्परोक्षाद्यतन्याशिषो धो ढः | २|१|८०|
१ - सिचः सकारस्य धातोः सकारस्य चेति बोध्यम् । २ - सिज्लुग्विकल्पे नाम्यन्तस्येति प्रत्वे तृतीयस्तृतीयेति तृतीयत्वे तवर्गस्येति टवर्गः । ३ - इन्ध्यसंयोगादिति कित्त्वान्न गुणः म्नामिति विकल्पेन पञ्चमः । तेन एधांचक्रे इत्येवमादीन्यपि रूपाणि बोध्यानि । ४-स्क्रीति सकार : ग्रहणात्स्स भावे कृगो नेट्, नाम्यन्तस्थेति षः ।
1