________________
१०८
हैमनूतनलघुप्रक्रिया द् । अतक्षत् , द्। अंतक्षीत् , अताक्षीत् । अतक्षिष्टाम् , अताष्टाम् । अतक्षुः, अताक्षुः। ततक्ष, ततक्षिथ । तक्ष्यात् । तक्षिता, तष्टा । तक्षिष्यति, तक्ष्यति । अतक्षिष्यत् , अतक्ष्यन् । त्वक्ष्णोति, तक्षति । त्वष्णुवन्ति, त्वक्षन्ति । त्वष्णुयात् , त्वक्ष्यात् । त्वक्ष्णुहि, त्वक्ष । अत्वक्ष्णोत् , अत्वक्षत् । अत्वक्षीत् , अत्याक्षीत् । अत्वक्षिष्टाम् , अत्वाष्टाम् । तत्वक्ष । तत्वक्षिथ । वक्ष्यात् । त्वक्षिता, त्वष्टा, त्वक्षिष्यति, . वक्ष्यति । अवशिष्यत् , अवक्ष्यत् । इति परस्मैपदिनः ॥ अथात्मनेपदिनः। -
एधि वृद्धौ । एधते।
आतामाते आथामाथे आदिः ।४।२।१२१॥ अकारात्परेषामातामाते आथामाथे इत्येतेषामात इर्भवति । एघेते, ऍधन्ते । एधसे, एधेथे, एधध्वे । एथे, एधावहे । एधामहे । एघेत, एधेयाताम् , एवेरन् । एधेथाः, एधेयाथाम् , एधेध्वम् । एधेय, एधेवहि, एधेमहि । एधताम् , एधेताम् एधन्ताम् । एधस्त्र, एघेथाम् . एधध्वम् । एधै, एधावहै, एधामहै। ऐधर्त, ऐघेताम् , ऐधन्त । ऐधथाः, ऐधेथाम्, ऐधधम् । ऐधे, ऐधावहि, ऐधामहि । ऐधिष्ट, ऐधिषाताम् । १-इइविकल्पे व्यञ्जनान्तत्वाद् वृद्धिः, संयोगस्येति ककारलुक् , पढोः कः, न म्यन्तरस्थेति षः । २-शव् । ३-अवर्णस्येत्येः । ४-लुगस्य । ५-मध्यस्याः। ६-ऐदौत्सन्ध्यक्षः। ७-समानदोघः । ८-स्वरादेस्तास्विति वृद्धिः, ९-अवर्णस्येत्येः। १०-मव्यस्याः। ११-स्वरादेस्तास्विति वृद्धिः, नाम्यन्तस्थेति षः, तवर्गस्येति टवर्गः ।