SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ हमनूतनलघुप्रक्रिया १०५ स्पृशादिसृपो वा ।४।४।११३।। स्पृश-मृश्-कृष्-तृपदृपां मृपेश्च स्वरात्परो धुडादौ प्रत्यये परे अकारोऽन्तो वा भवति न तु किति । अक्राक्षीते , द् । अक्राष्टोम् । अक्राक्षुः । अकाक्षीत् , द् । अकाष्टम् , अकार्षुः ।। हशिटो नाम्युपान्त्याददृशोऽनिटःसक ।३।४।५५॥ हकारान्तात् शिडन्ताच्च नाम्युपान्त्याद् दृशिवर्जाद् अनिटो धातोरद्यतन्यां परतः सक् प्रत्ययो भवति । सिचोऽपवादः। अक्षत् , द् ॥ स्वरेऽतः ।४।३।७५ ॥ सकोऽकारस्य स्वरादौ प्रत्यये परे लुग् भवति । अवक्षन् । अकृक्षम् । अकृक्षाम । चकर्ष, चकृषतुः, चकर्षिथ, चकृषिम । कृष्ात् । क्रष्टा, की । क्रक्ष्यति, कयति । अक्रक्ष्यत् , द्, अयत् , द् ॥ हसे हसने । हसति । हसेत् , द् । हसन्तु । अहसत् , द् । अर्हसीत् , द् । जहास । जहसिथ । हस्यात् , द् । हसिता, हसिष्यति । अहसिष्यत् , द ॥ दहं भस्मीकरणे । दहति, दहेत , द् । दहानि, अदहत् । अधीक्षीत् , द् ॥ ___ अधश्चतुर्थात्तथोधः ।२।१।७९॥ चतुर्थात्परयोस्तकार१-इनिषेधः, व्यञ्जनानामिति वृद्धिः, षढो.ते कः । २-धुड्ड्स्वत्वादिति सिज्लुक् । ३-सकः कित्त्वाद् गुणाभावः । ४-स्पृशादीत्यदन्तः । ५-स्पृशादित्यदन्तः । षढोः कः । ६-नश्वीति वृद्धिनिषेधः । ७-इनिषेधः । व्यञ्जनानामिति वृद्धिः । भ्वादेर्दादेरिति घः । गडदबादेरिति चतुर्थोधः अघोष इति प्रथमः । ....
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy