SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०२ हैमनूतनलघुप्रक्रिया इत्येषां शिति प्रत्यये परे छकारान्तादेशो भवति । गच्छति । गच्छेत् , द्। गच्छतात् , द्, गच्छतु । अगच्छत् , द्। अर्गमत् , द् । अगमन् । अगमम् । अगमाम । जगाम.॥ गमहनजनखनघसः स्वरेऽनङि डिति लुक ।४।२।४४॥ गम् , हन् , जन् , खन् , घर , इत्येषां धातूनामुपान्त्यस्य अड्वर्जे स्वरादौ विङति प्रत्यये परे लग् भवति । जग्मतुः। जगमिथ, जगन्थ । जगाम, जगम । जग्मिम । गम्यात् , द् । गन्ता । गमोऽनात्मने ।४।१५१॥५२॥ गमः परस्य सकारादेस्ताद्यशित आदिरिड् भवति, आत्मनेपदे न भवति । गमिष्यति, अगमिष्यत् , द् । क्रमू पादविक्षेपे। भ्राशलाशभ्रमक्रमक्लमत्रसित्रुटिलषि यसि संयसेर्वा ।३।४।७३॥ भ्राश् , भ्लाश् भ्रम् क्रम् क्लम् त्रस् त्रुट लष् यस संयस् इत्येतेभ्यः कर्तरि विहिते शिति श्यः प्रत्ययो वा भवति । शकार इत् ॥ क्रमो दीर्घः परस्मै ।४।२।१०९॥ क्रमेः परस्मैपदे शिति परे दीपों भवति अत्यादौ । क्राम्यति, कामति । क्राम्येत् , द् , कामेत् , द् । क्राम्यतात् , द्, क्राम्यतु, क्रामतात् , द्, क्रामतु । अक्राम्यत् , द् । अक्रामत् , द् ॥ १-स्वरेभ्यः, अघोषे प्रथमः । २-लदिद् । ३-सृजिदृशीति वेट, म्ना धुड्वर्गे । ४-अनुस्वारेत्त्वान्नेट् , म्नां धुड्वर्मे ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy