SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १०० ... हैमनूतनलघुप्रक्रिया अपतिष्यत , द्। पथति । पथेत , द्। पथतात् , द् । पथतु । अपथत् , द्॥ न श्विजागृशस्क्षण्म्ये दितः ।४।३।४९॥ श्वि, जागृ, शम , क्षण् इत्येषां हकारमकारयकारान्तानाम् एदितां च धातूनां परस्मैपदविषये सेटि सिचि परे वृद्धिर्न भवति ।। __व्यञ्जनादेवोपान्त्यस्यातः ।४।३।४७॥ व्यञ्जनादे र्धातोरुपान्त्यस्याकारस्य सेटि सिचि परस्मैपदविषये परे वृद्धिर्वा भवति । अपथी , द् । पपाथ । पेथतुः । पेथिथ । पेथिम । पथ्यात् , द्। पथिता। पथिष्यति । अपथिष्यत् , द् ॥ गद व्यक्तायां वाचि । गदति । प्रणिगंदति । गदेत् , द् । गदतात् , द् , गदतु । अगदत् , द् । अँगादीत् , द् , अगदीत् , अगादिषुः, अगदिषुः । अगादीः, अगदीः। अगादिष्म, अगदिष्म । जंगाद । जगदुः। जगदिथें । जगाद, जगद। जगदिम। गद्यात् , द्। गदिता, गदिष्यति, अगदिष्यत् , द्॥ अर्द गतियाचनयोः। अर्दति, अर्देत , द्। अर्दतात् , द्, अर्दतु । आर्दत् , द्। आर्दीत् , द्। · आनर्द, आनर्दुः, आनर्दिथ । अर्थात् , द्। अर्दिता, अर्दि.. ष्यति, आर्दिष्यत् , द्॥णिदु कुत्सायाम् ॥ . १-व्यञ्जनादेरिति प्राप्ता वृद्धिरेदित्त्वान्न श्विजानित्यादिना निषिध्यते इति ..बोध्यम् । २-ने मादेति. णः । ३-सिचीटीति वृद्धावटि च सिज्लोपे समानदीर्घः पक्षे वृद्धयभाव इत्यगदीदिति बोध्यम् । ४-गहोर्जः । णितीति वृद्धिः। ५-स्क्रस्तितीट् । ६-स्वरादेस्तास्विति वृद्धिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy