________________
~
~
हैमनूतनलघुप्रक्रिया स्थामहे ।३।३।१५॥ इमानि वचनानि मविष्यन्तीसज्ञानि भवन्ति । भविष्यति, भविष्यतः, भविष्यन्ति । भविष्यसि, भविष्यथः, भविष्यथ । भविष्यामि, भविष्यावः, भविष्यामः ॥
सप्तम्यर्थे क्रियातिपत्तो क्रियातिपत्तिः ।५।४।९॥ सप्तम्या अर्थों निमित्तं हेतुफलकथनादिको सामग्री । कुतश्चिद् वैगुण्यात् क्रियाया अतिपतनमनभिनिवृतिः क्रियातिपत्तिः। क्रियातिपत्तौ सत्यां भविष्यत्यर्थे वर्तमानाद्धातोः सप्तम्यर्थे क्रियातिपत्तिविभक्तिर्भवति ॥
क्रियातिपत्तिः-स्यत् स्यताम् स्यन् , स्यस् स्यतम् स्यत, स्यम् स्याव स्याम । स्यत स्येताम् । स्यन्त, स्यथास् स्येथाम् स्यध्वम् , स्ये स्थावहिं स्यामहि ।३।३।१६॥ इमानि वचनानि क्रियातिपत्तिसंज्ञकानि भवन्ति । सुवृष्टिश्चेदभविष्यत् सुभिक्षमभविष्यत् । अभविष्यताम् , अभविष्यन् । अभविष्यः, अभविष्यतम् , अभविष्यत ।. अभविष्यम् , अभविष्याव, अभविष्याम ॥ पां पाने ॥
॥ श्रौतिकृवुधिवुपाघ्राध्मास्थाम्नादामदृश्य१-इटि गुणे अवादेशे नाम्यन्तस्थेति षः। २-सूत्रे सप्तम्यर्थपदार्थ क्रियातिपत्तिपदार्थ चाह । ३-इटि गुणे अवादेशे अडागमे षः । ४-श्रु, कृव', घिबू , पा, घा, मा, स्था, म्ना, दा, दृश्. ऋ, शद्, सद्, एतेषां धातूनां स्थाने यथासंख्यं श; कृ, धि, पिब, जिघ्र, धम, तिष्ठ, मन यच्छ, पश्य, ऋच्छ, शीव, सीद, इत्येते आदेशा भवन्ति ।