________________
__ सिद्धहेमलघुकृत्ती [ प्रथमाध्यायस्य ततोऽवर्गात्परस्या अस्या अन्तस्थाया द्वे रूपे वा स्याताम् । दध्य्यत्र, दध्यत्र ॥ शिटः प्रथमद्वितीयस्य ॥३५॥ शिटः परयोः प्रथमद्वितीययोर्द्व रूपे वा स्याताम् । त्वंक्करोषि। त्वं करोषि । त्वं क्खनसि, त्वं खनसि ॥ ततः शिटः ॥३६॥ ततः प्रथमद्वितीयाभ्यां परस्य शिटो द्वे रूपे वा स्याताम् । तच्श्शेते, तच्शेते ॥ न रात्स्वरे ॥३७।। रात्परस्य शिटः स्वरे परे द्वे रूपे न स्याताम् । दर्शनम् ॥ पुत्रस्याऽऽदिन्पुत्रादिन्याक्रोशे ॥ ३८ ॥ आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आक्रोशविषये द्वे रूपे न स्याताम् । पुत्रादिनी त्वमसि पापे, पुत्रपुत्रादिनी भव । आक्रोश इति किम् ? पुत्रादिनी
वर्तते । त्वं करोषि, अत्रानुस्वाररूपशिटः परस्य कस्य द्वित्वम् ।। ताभ्यां ततः, शिटः षष्ठी ॥ तत्पदेन प्रथमद्वितीययोः परामर्शः । तत् शेते, प्रथमात्तकारात् परस्य शकारस्य शिटो वा द्वित्वं ' तवगस्ये 'ति तस्य चः ॥ न, रात् पञ्चमी, स्वरे ॥ शिटः द्वे इति पदद्वयमनुवर्तते । दृशं प्रेक्षणे, दृश्यते इति दर्शनम् ; 'करणाधारे अनटू' गुणः, अर्, 'दिर्ह स्वरस्ये 'ति द्वित्वे विकल्पे प्राप्ते निषेधः ॥ पुत्रस्य, आदिन् च पुत्रादिन् च आदिन्पुत्रादिन् तस्मिन् , आक्रोशनमाक्रोशः तस्मिन् ॥ न द्वे इति वर्तेते । पुत्रमत्तीत्वेवंशीला पुत्रादिनी 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायेन स्त्रिया मुदा हृतं प्रायेण तत्रैवाऽक्रोशसम्भवात् । अध्यारोपेण हि निन्दा आक्रोशः, तत्वाऽऽख्याने त्वसौ प्रतिषेधो नास्ति, 'अदीर्घाद्विरामैके 'ति विकल्पे प्राप्ते प्रतिषेधपरमिदं सूत्रम् ॥ मश्च नश्च म्नः तेषाम् , धुटू चासौ वर्गश्च, तस्मिन् , अन्त्यः, न पदान्तः अपदान्तस्तस्मिन् ॥ गच्छतीति गन्ता, 'णकतृचौ,' अनेनात्र मकारस्य 'आसन्ने'ति सूत्रसहकारेण पञ्चमो नकारः। शकुङ् शङ्कायां, 'उदितस्वरान्नोन्तः,' शङ्कते इति शङ्किता, अत्रापि नकारस्य ङकारः, कम्पते इति कम्पिता, अत्र नकारस्य छः । 'आङो यम