SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः ] भवरिपरिष्कारसहितायाम् । ५९ स्वरात्परस्य रहस्वरवर्जस्य वर्णस्य विरामे असंयुक्तव्यञ्जने च परेऽनु द्वेरूपे वा स्याताम् । त्वक्क् , त्वक्, दद्ध्यत्र, दध्यत्र, गो३त्रात, गो३त्रात। अर्हस्वरस्येत्येवं ? वर्या, वां, तितउ ॥ अञ्वर्गस्यान्तस्थातः ॥३३॥ अन्तस्थातः परस्य वर्जवर्गस्य अनु द्वे रूपे वा स्याताम् । उल्क्का, उल्का। अभिति किम् ? हल्लौ ॥ ततोऽस्याः ॥३४॥ यत्वस्यासिद्धत्वात् । ' तृतीयस्तृतीये 'ति प्रथमधकारस्य दकारः । गो३त्रातेति, 'दूरादामन्त्र्यस्ये ' ति प्लुतः, अनेन तस्य द्वित्वम् । ब्रियते इति वर्या, अत्र स्वरात्परो रः। 'वर्योपसर्ये 'ति यप्रत्ययः । उह्यतेऽनेनेति वह्यम् , वह्यं करणमित्यनेन निपातनम् , अत्र स्वरात्परो हकारः। तनोतीति तितउ, अत्र स्वरात्परः उकारः। तितउश्चालनिके. त्यर्थः । न ब् अन् , अञ् चासौ वर्गश्च अवर्गः तस्य, अन्तस्थाया इति अन्तस्थातः, ' आद्यादित्वा 'त्तस् ॥ अनु, द्वे इत्यनुवर्तते । उल्का, अत्र लकारात्परस्य ककारस्य द्वित्वम् । हल चासौ बश्च हल्लौ, अत्र बस्य द्वित्वनिषेधः । व्यञ्जनस्य हल्संज्ञा ॥ तस्मात् ततः, अस्याः षष्ठी ॥ द्वे इति वर्तते । तच्छब्देनाञ्वर्गस्य परामर्शः, . इदंशब्देन चान्तस्थाशब्दस्य । दध्यत्रेत्यत्रानेन सूत्रेण धकारात्परस्य यस्य द्वित्वम् , तथा च धकारयकारयोत्विविकल्पादेकधयकारात्मक. मेकं रूपम् १। द्विधद्वियघटितमेकं रूपम् २ । द्विधैकयघटितम परं रूपम् ३ । एकधद्वियघटितं चान्यत् ४ । इति सामान्यतश्चत्वारि रूपाणि । ननु धकारस्य द्वित्वे कर्तव्ये ' असिद्धं बहिरङ्गमन्तरङ्गे' इति न्यायेन बहिरङ्गः याऽऽदेशोऽसिद्ध इति कथं द्विधघटितं रूपं स्यादिति चेन्न, 'न सन्धी 'ति सूत्रे सन्धिग्रहणेनैव द्वित्व. विधावपि स्थानिवद्भावप्रतिषेधे सिद्धे पृथग् द्वित्वग्रहणं ' असिद्धं बहिरङ्गमिति न्यायस्यानित्यतां ज्ञापयति, तेनात्रासौ न प्रवर्तते ।। शिटः पञ्चमी, प्रथमश्च द्वितीयश्च प्रथमद्वितीयम् तस्य ॥ द्वे इति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy