SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ [प्रथमाध्यायस्य ति, गच्छति ॥ हादर्हस्वरस्यानु नवा ॥३१॥ स्वरात्पराभ्यां रहाभ्यां परस्य रहस्वरवर्जस्य वर्णस्य द्वे रूपे. वा स्याताम् , अनुकार्यान्तरात्पश्चात् । अर्कः, अर्कः । ब्रह्मम, ब्रह्म । अर्हस्वरस्येति किम् ? पद्महदः, अर्हः, करः । स्वरेभ्य इत्येव ? अभ्यते । अन्विति किम् ? प्रोणुनाव ॥ अदीर्घाद्विरामैकव्यञ्जने ॥३२॥ अदीर्घासर्गात् अणु आच्छादने इत्यस्य धातोः परोक्षायां रूपम् । अत्र अनु इत्यस्याभावे सत्यन्तरङ्गत्वादनेन द्वित्वे कृते पश्चात हिरङ्गं परोक्षानिमित्तं द्विर्वचनं स्यात्, ततश्च प्रोणुन्नावेत्यनिष्टं रूपं स्यात्, अतः प्रथमं प्रोणुनावेति प्रसाध्य ततोऽनेन णस्य द्वित्वम् ।। न दीर्घः अदीर्घः तस्मात् , एकं च तद् व्यञ्जनं च, विरामश्च एकव्यञ्जनं च तस्मिन् ॥ द्वे, अर्हस्वरस्य, अनु इत्यनुवर्तते । त्वकिति, अनेन द्वित्वम् , पुनश्चानेन एकव्यञ्जने परे द्वित्वं न भवति, ' यावत्सम्भवः तावद्विधिरि'ति न्यायात् , किञ्चित्फलाभावात् । यस्य सूत्रस्य यत्र प्रवर्तने किश्चित्फलं नास्ति, तत्सूत्रं तत्र न प्रवर्त्यते, इत्यर्थकेन 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिबाध्यत' इति न्यायेन व्यर्थविधि. निषेधेन प्रवृत्तेः सम्भवस्य व्याहतत्वादनाथा क्रियानुपरमप्रसङ्गात् । अर्हस्वरमात्रस्य द्वित्वविधानसामर्थ्यात् पदस्येति 'संयोगस्यादौ ' इति वा न प्रवर्तते । दधि अत्र इति स्थिते 'इवर्णादेरि' ति यत्वेऽनेन धस्य द्वित्वम् । न च धस्य कथं द्वित्वं ' स्थानी. वावर्णविधावि 'ति सूत्रेण यस्य स्थानिवद्भावात् व्यञ्जनपरत्वाभावादिति वाच्यम् । अस्य द्वित्वस्य वर्णविधित्वेनावर्णविधाविति निषेधात् । न च स्वरस्य परे प्राग्विधावित्यनेन परनिमित्तकस्य स्व. रादेशस्य यकारस्य स्थानिवद्भावः स्यादिति वाच्यम्, 'न सन्धि' इत्यनेन तन्निषेधात् । तथा च द ध ध य अत्र, इति भवति । न चात्र ‘पदस्ये 'ति सूत्रेण यलोप: स्यादिति वाच्यम् , ' असिद्ध बहिरङ्गमि'ति न्यायेन अन्तरङ्गे यकारलोपे क्रियमाणे बहिरङ्गस्य
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy