________________
तृतीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
५७
स्ते, सुगण्णिह, कृषन्नास्ते ॥ अनाङ्माङो दीर्घाद्वा छः ||२८|| आङ्माङ्वर्जदीर्घात्पदान्तस्थात् परस्य छस्य द्वे रूपे वा स्याताम् । कन्याच्छत्रम्, कन्याछत्रम् । अनाङ्माङिति किम् ? आच्छाया, माच्छिदत् || प्लुताद्वा ||२९|| पदान्तस्थाद्दीर्घात्प्लुतात्परस्य छस्य द्वे रूपे वा स्याताम् । `आगच्छ भो ! इन्द्रभूते ३ च्छत्रमानय, पक्षे छत्रमानय || स्वरेभ्यः ||३०|| स्वरात्परस्य छस्य द्वे रूपे स्याताम् । इच्छ
भ्यः' । ङित्करणादव्यययोः आङमाङोर्ग्रहणम् | प्लुतात् वा ॥ दीर्घात्, छ:, द्वे इति सम्बध्यन्ते । अनुवर्तमानस्य दीर्घस्य प्लुतेन विरोधत्सामानाधिकरण्यासम्भवात् दीर्घस्थानकः लुतो ग्राह्यः भो इन्द्रभूते,
"
दूरादा मन्त्रयस्ये 'ति प्लुतः, छत्रम्, अनेन छस्य द्वे रूपे । भूतपूर्वं दीर्घमाश्रित्य पूर्वसूत्रेणैव सिद्धाविदं सूत्रं ' ह्रस्वदीर्घापदिष्टं कार्य न प्लुतस्ये 'ति न्यायं ज्ञापयति । एवमेव हे राज ३ निह, इत्यादौ परत्वान्नित्यत्वाच्च, 'दूरादामन्त्र्यस्ये 'ति जकारोत्तरवकारस्य ' प्लुतत्वे कृते ' भूतपूर्व कस्तद्वदुपचार ' इति न्यायेन ह्रस्वोपचारान्नस्य ' ह्रस्वान् न इति न द्वित्वमुक्तन्यायात् । तथा हे गो ३त्रात, इत्यत्र ' अदीर्घाद्विरामे 'ति सूत्रे दीर्घवर्जनेऽप्यु - क्तन्यायेन प्लुतावर्जनात् वा द्वित्वम् ॥ स्वरेभ्यः, द्वे छः इत्यनुवर्तेते । बहुवचनं व्याप्त्यर्थम् तेन पदान्ते इति निवृत्तम् । इच्छति, पदान्तेऽपि भवति, तेन वृक्षच्छाया ॥ रूच हश्च तस्मात्, र् च हश्च स्वरश्च र्हस्वरं न र्हस्वरं अर्हस्वरं तस्य, अनु नवा, द्वे इत्यनुवर्तते । अर्ध्यते स्तूयते इत्यर्कः, चस्य कः अनेन सूत्रेण विकल्पेन कस्य द्वित्वम् । ब्रह्म, मस्य द्वित्वम् । पद्मानां हृदः, पद्मश्वासौ हृदश्चेति वा । अर्हेति रेफपरो हकारः । अर्हतीति अच्, अर्हः, क्रियतेऽनेनेति, कर, ' पुंनाम्नि ' घः, अत्र अकारपरो रेफः, ततो द्वित्वं न भवति । अभ्रयते, अत्र व्यञ्जनपरो रेफः । प्रोर्णुनावेति, प्रोप
S
,
6
८