________________
तृतीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
६१
शिशुमारी, पुत्रादिनीति वा । पुत्रपुत्त्रादिनी नागी, पुत्रपुत्रादिनीति वा ॥ म्नां धुवर्गेऽन्त्योऽपदान्ते ||३९|| अपदान्तस्थानां मनानां धुटि वर्गे परे निमित्तस्यैवान्त्योऽनु स्यात् । गन्ता, शङ्किता, कम्पिता । डिति किम् । आहन्महे । धुवर्ग इति किम् ? गम्यते । अपदान्त इति किम् ? भवान् करोति । शिड्हेऽनुस्वारः ||४०|| अपदान्तस्थानां म्नां शिटि हे च परेऽनुस्वारोऽनु स्यात् । पुंसि, दंशः, बृंहणम् || रो रे लुग्दीर्घश्वादिदुतः || ४१|| रस्य रे परेऽनु लुक् स्यात्, अइऊनाञ्च दीर्घः । पुना रात्रिः, अग्नी रथेन, पटू राजा ।
"
"
हने 'त्यात्मनेपदम् । आहन्महे, अत्र मकारस्य वर्गत्वेऽपि घुट्त्वाभा - वान्न नकारस्य मकारः पञ्चमः । गम्यते इत्यत्र तु यकारस्य घुट्त्वेऽपि धुवर्गत्वाभावान्न मस्य यस्यान्त्यो रः । म्नामिति बहुवचनं वर्णान्तरवाधनार्थम् तेन अपदान्तस्थयावद्व्यक्तिव्यात्या तत्प्रवृत्तेः कुर्वन्ति कृषन्तीत्यत्र नकारस्य णत्वं बाधित्वानेन वर्गान्त्य एव भवति ॥ शिट् च हश्च शिड्हं तस्मिन्, अनुस्वारः । अपदान्ते, म्नामिति चानुवर्तेते । पुम्स् इ, अत्रानेन सूत्रेण शिटि परे मकारस्यानुस्वारः दंश दशने, दंशनं दंशः, घन्प्रत्ययः । बृहु शब्दे, 'उदितस्वरान्नोन्तः ' ' स्वरात् नस्य णः, बृह्यते अत्रानटि म्नामिति बहुवचनात् बृंहणमित्यत्र णत्वम्, दंश इत्यादौ ' तवर्गस्ये 'ति नत्वं च बाधित्वानेनानुस्वार एव भवति || रः षष्ठी, रे सप्तमी, लुग्, दीर्घः, च, अच्च इच्च उच्च अदिदुत् तस्य ।। अत्रेकांरात्परस्य रेफस्य रेफे अपदान्ते सम्भवो नास्ति, अत इद्रहणादपदान्त इति नानुवर्तते, भिन्न स्थानिनिमित्तवर्णनाद्वा, ननु रोरिति किं सानुबन्धस्य रोर्ग्रहणं, किंवा निरनुबन्धस्य । आद्ये पुना रमते इत्यादि न सिध्येत्, द्वितीये चाग्नी रथेनेत्यादि न सिध्येदिति चेन्न, र इति सामान्यनिर्देशेन, ' निरनुबन्धग्रहणे सामान्यग्रहण - मि'ति न्यायेनोभयोर्ग्रहणात्, अत एव वृत्तौ रस्येत्युक्तम् | 'सप्तम्याः