SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६२ सिद्ध हेमलघुवृत्तौ [ प्रथमाध्यायस्य अनु इत्येव ? अहोरूपम् || ढस्तड्डे ||४२|| तन्निमित्ते ढे परे ढस्यानु लुक् स्यात्, दीर्घश्चादिदुतः । माढिः, लीढम्, गूढम् । इति किम् ? मधुलिङ्कौकते ॥ सहिवहेरोचावर्णस्य ||४३|| सहिवह्योर्दस्य तड्ढे परेऽनु लुक् स्यात्, ओच्चावर्णस्य । सोढा, वोढा, उद पूर्वस्ये 'ति परिभाषयाव्यवहितपूर्वस्य अदिदुतो दीर्घो विधेयः । पुनर् अव्ययम्, रात्रिः, अनेनात्र रस्य लुक्, पूर्वस्य चाकारस्य दीर्घः, निरनुबन्धरे फस्योदाहरणमिदम् । अग्नी रथेनेत्यादि तु रोः । अहोरूपमित्यत्र रोरुत्वे कृते रेफाभावालुगू दीर्घौ न भवतः, लुग्दीर्घश्चेत्येकनिमित्तत्वात्, अन्यथा ' सर्वेभ्यो लोपो बलीयः ' इति न्यायेन परत्वाद्वाऽनेन रस्य लुकि दीर्घे च अहा रूपमिति स्यात् । अत्र ं न्याये लोपशब्देन लुगेव ग्राह्यः ॥ ढः षष्ठी, तन्निमित्तो ढः तड्डः, तस्मिन्, ' तवर्गस्ये 'ति दस्य डः || लुग्दीर्घश्चादिदुत इत्यभिसम्बध्यते । इदं सूत्रं पदान्ते ' घुटस्तृतीय' इत्यस्य, अपदान्ते तु ' तृतीयस्तृतीयचतुर्थे ' इत्यस्य बाधकम् । अतोऽन्वित्यधिकार एतयोः सूत्रयोर्विषयं मुक्त्वा ज्ञातव्यः । मह पूजायाम्, महनं मादिः, स्त्रियां क्तिः, महू ति, 'हो धुट् पदान्ते, ' इति हस्य ढः, ' अधश्चतुर्थादि 'ति तस्य धः, मद् धि, ' तवर्गस्ये 'ति य ढः, अनेन सूत्रेण प्रथमढकारस्य लोपः, अकारस्य दीर्घश्च । एवमग्रेऽपि ज्ञेयम् । लिहींक् आस्वादने, लिह्यते स्म लीढम्, गुहौग संवरणे, गुह्यते स्म गूढं, मधुलेढीति किपि मधुलिट्, अत्र उत्तरढकारस्य पूर्वढनिमित्तत्वाभावालुग्न ॥ सहिश्च वहिश्च तस्य, ओतू, च, अवर्णस्य ॥ लुक्, ढस्तड्डे इत्यनुवर्तेते । षहि मर्षणे, सहते इति सोढा, णकतृचौ, ' हो घुट् ' हः ढः, 'अधश्चतुर्था ' तस्य धः, प्राग्वत् । वहीं प्रापणे, उद् वह् ताम्, ' सिजद्यतन्यामि 'ति सिच् प्रत्ययः, ' व्यञ्जनानामि 'ति वृद्धि:, ' धुट् ह्रस्वे 'ति सिच् 1 ·
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy