________________
तृतीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
६३
वोढाम् ॥ उद: स्थास्तम्भः सः || ४४|| उदः परयोः स्थास्तम्भोः सस्य लुक् स्यात् । उत्थाता, उत्तम्भिता ॥ तदः सेः स्वरे पादा| ४५ ॥ तदः परस्य सेः स्वरे परे लुक् स्यात् । सा चेत्पादपूरणी
हो
"
"
घुट् पदान्ते अधश्चतुर्था' धः ' तवर्गस्य ' अनेन लोपः, ओच्च ।। उदः पञ्चमी, स्था च स्तम्भ च तस्य सः षष्ठी ॥ लुगित्यनुवर्तते । ' पञ्चम्या निर्दिष्टे परस्ये 'ति परिभाषालभ्यमर्थमाह - उदः परयोरिति । ष्ठां गतिनिवृत्तौ षः सः । ' निमित्ताभावे नैमित्तिकस्याप्यभाव: ' इति न्यायेन स्था, उत्तिष्ठतीति, णकतृचौ, उद् स्थाता, सलुक्, स्तम्भू इति सौत्रो धातुः उत्तम्नातीति तृच् उत्तम्भिता उद् इति स्थास्तम्भविशेषणस्यैव ग्रहणम्, तेन ऊर्ध्वं स्थानमस्येति उत् स्थानः, अत्र न सलुक्, उदः स्थानस्य विशेषणत्वात् न तु तिष्ठतेः । ननु उदस्थादित्यत्र सकारलोपापत्तिः, न च अडागमेन व्यवधानमस्तीति वाच्यम्, तस्य स्थाधात्वङ्गत्वेन ' स्वाङ्गमव्यवधायी 'ति न्यायेनाव्यवधायकत्वादिति चेन्न, ‘ निर्दिश्यमानस्यैवाऽऽदेशाः भवन्ती 'ति न्यायेन सूत्रे सकारादिस्थास्तम्भोरेव निर्दिष्टत्वेनोदस्थादित्यत्र त्वकारादिस्थाशब्दस्य सत्त्वान्न सलोपापत्तिः : । अत्र स्थाशब्दस्य घटितत्वेऽप्यागमसमभिव्याहारे आगमसहितस्यैवाऽर्थवत्त्वात् तद्वदितस्थायाः निरर्थकत्वात् अर्थवग्रहणपरिभाषयानर्थके तत्राऽप्रवृत्तेश्च ॥ तदः पञ्चमी, सेः पष्ठी, स्वरे, पादाय इयं पादार्था ॥ तदित्यनेन तदादेशभूतस्य सस्य ग्रहणम्, अन्यथा व्यञ्जनात्परस्य सेः ' दीर्घङयाबि 'त्यनेन लुग् सिद्ध एव । ( पञ्चम्या निर्दिष्टे परस्ये 'ति वर्तते । तद् इत्यत्र 'प्रकृतिवदनुकरणमि 'ति न्यायो न प्रवर्तते; अन्यथा तदोऽनुकरणभूतस्याऽस्य प्रकृतिवत्त्वस्वीकारे तस्मादिति स्यात् । सैष दाशरथी रामः, इत्यादौ सस् एषः इति स्थिते,
लोपः,
"
"
"
·