SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ । [प्रथमाध्यायस्य स्यात् । सैष दाशरथी रामः, सैष राजा युधिष्ठिरः । पादार्थेति किम् ? स एष भरतो राजा ॥ एतदश्च व्यञ्जनेऽनग्नसमासे ॥४६॥ एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुक् स्यात् , अकि नसमासे न । एष दत्ते, स लाति । अनमञ्समास इति किम् ? एषकः कृती, सको — सो रुः' · रोर्यः ' तस्य लुक् , असन्धिश्च न भवति, अन्यथा स एष दाशरथी राम इति स्यात् , एवश्चाष्टवर्णात्मकत्वलक्षणपादस्य हानिः स्यात् , अतोऽनेन सूत्रेण सलोपः सन्धिश्च । स एष भरतो राजा इत्यत्र तु रुत्वयत्वलोपासन्धीनां प्रवृत्तावपि न पादहानिरिति न प्रकृतसूत्रं तत्र प्रवर्तते । एवं ' सोऽहं तथाऽपि तवे ' त्याद्यपि भाव्यम् ॥ एतदः पञ्चमी, च, व्यञ्जने, नत्रः समासः, अक् च नसमासश्च, न अग्नसमासः तस्मिन् ॥ च. शब्देन तदोऽनुकर्षः, लुगित्यनुवर्तते । अनग्नसमासे इत्यत्र नब् प्रसज्यप्रतिषेधपरः, न तु पर्युदासपरः, अन्यथा समासे एव सिलोपः स्यात् । प्रसज्यप्रतिषेधाश्रयणादेव अकि, नसमासे च न भवतीत्युक्तम् । कुत्सितोऽल्पोऽज्ञातो वा एषः एषकः, एवं सकः । 'त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वो अक्' इत्यनेनाऽतः पूर्वोऽक् । ' तन्मध्यपतितस्तद्हणेन गृह्यते' इति न्यायेन साकोऽपि प्राप्ते प्रतिषेधः, न एषः अनेषः । ननु अनेषो यातीत्यत्र नञ्तत्पुरुषस्य पूर्वपदार्थप्राधान्यादेतच्छब्दाद्यर्थस्य गौणत्वात् ' आद्वेर ' इत्यादेः प्रधाने एव प्रवृत्तरत्र तदप्रवृत्त्या — दीर्घङयाबि 'ति सिलोप एव स्यादिति चेन्न, नब्समासे उत्तरपदार्थप्राधान्यस्येदमेव हि ज्ञापकम् , गौणत्वेऽपि वा नब्ब्समासे उत्तरपदार्थप्राधान्यप्रयुक्तकार्यस्य, तस्मा 'दाद्वेरः ' 'तः सौ सः' इत्यादीनि प्रवर्तन्ते । तथा च प्रतिपेधाभावेऽनेनैव सिलोपः स्यादतो नसमासवर्जनं कृतम् ॥ व्यञ्जनात्, पञ्चमश्चान्तस्था च तस्याः, सर्वो
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy