SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ . तृतीयपादः ] अषचूरिपरिष्कारसहितायाम् । याति, अनेषो याति, असो वाति ॥ व्यञ्जनात् पञ्चमान्तस्थायाः सरूपे वा ॥४७॥ व्यञ्जनात् परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वर्णे परे लुग् वा स्यात् । क्रुञ्चो ङ्डौ, क्रुङौ, क्रुझ्डौ । आदित्यो देवताऽस्य आदित्यः, आदित्य्यः। सरूप इति किम् ? वर्ण्यते ॥ धुटो धुटि स्वे वा ॥४८॥ व्यञ्जनात्परस्य धुटो धुटि स्वे परे लुग्वा स्यात् । शिण्ढि, शिण्ड्डि । स्व इति किम् ? तप्ता, दर्ता ॥ तृतीयस्तृतीयचतुर्थे ॥४९॥ तृतीये चतुर्थे च परे धुटस्तृतीयः स्यात् । ऽपि द्वन्द्वो विभाषया एकवद्भवतीत्येकवद्भावो नपुंसकत्वञ्च प्राप्तमपि सौत्रत्वान्नपुंसकत्वाभावः। समानं तुल्यं रूपं यस्य सरूपः, तस्मिन् , वा । लुगिति वर्तते । क्रुश्चतीति क्रुङ्, ङ च ङ् च डौ, क्रुश्चो ङ्डौ क्रुङ्डौ, ' पदस्ये 'ति चलोपः, 'युजञ्च क्रुच्चो नो ङः,' अनेन सूत्रेण तस्य लुग्वा । अदितेरयमादित्यः, आदित्यो देवताऽस्य, 'अनिदभ्यणापपादे चे 'ति यप्रत्ययः अलोपः, अनेनैक यलोपः, वर्णण वर्णक्रियाविस्तारगुणवचनेषु, वर्ण्यते, अत्र पञ्चमस्य णस्य सरूपो यकारो नेति णलुग्न भवति ॥ धुटः षष्ठी, धुटि, स्वे, वा ॥ लुग्, व्यञ्जनादिति पदद्वयमनुवर्तते । शिप्रूप् विशेषणे, शिप् धातोः पञ्यम्यां हौ परे ' रुधां स्वरादिति भाप्रत्यये 'भास्त्यो गि'त्यकारलोपे 'हुधुटः' इति हेः धिकृते 'तृतीयस्तृतीये 'ति षकारस्य डकारे, 'तवर्गस्ये 'ति धेः ढत्वे, ‘म्नां धुडि 'ति णत्वे शिण्डि इति जातेऽनेन वा डस्य लुक् । तृपौच प्रीतौ, दृपौच हर्षमोहनयोः, तृप्यतीति दृप्यतीति, ‘णकतृचौ' तप्ता दप्ता, अत्र न पकारस्य लोपः स्वपरत्वाभावात् ।। तृतीयः, तृतीयश्च चतुर्थश्च तस्मिन् ॥ धुट इ. त्यनुवर्तते । टुमस्जौत् शुद्धौ, मस्ज, वर्तमाने तिव् , ' तुदादेः ' शः, 'शस्य शषौ ' इति सस्य शे कृते शकारस्यानेन सूत्रेणासन्नो जकारः । दुहीक् क्षरणे, श्वस्तन्यां ता, दोग्धा 'भ्वादेर्दादेर्घः' हस्य घः,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy