________________
६६
सिमलघुवृत्ती
[ प्रथमाध्यायस्य
मज्जति, दोग्धा । अघोषे प्रथमोऽशिटः ||२०|| अघोषे परे शिवर्जस्य धुटः प्रथमः स्यात् । वाक्पूता । अशिट इति किम् ? पयस्सु || विरामे वा ||२१|| विरामस्थस्याऽशिटो धुटः प्रथमो वा स्यात् । वाक्, वाग् ॥ न सन्धिः || ५२ ॥ उक्तो वक्ष्यमाणश्चं स
,
'अधश्चतुर्था' तस्य धः, 'घुटस्तृतीय' इति पदान्तार्थम् एतच्चापदान्तार्थं सूत्रम् ॥ अघोषे प्रथमः, न शिट् अशिट् तस्य ॥ घुट इत्यनुवर्तते, 'चजः कगं ' चः कः । ' घुटस्तृतीयः ' कस्य गकारः । अनेन प्रथमः कः । पूयते स्मेति पूता, वाचा पूता वाक्पूता । पयम्सु, अत्र न सकारस्य प्रथमः शिऽरूपघुट्त्वात् । यद्यपि पयस्स्वित्यत्र 'शषसे शषसं वे 'ति विधानादपि प्रथमता न प्राप्नोति, तथापि योततीत्यादौ शकारस्य चकारे परे प्रथमताऽऽपत्तिः स्यादिति शिवर्जनम् ॥ विरामे, वा ॥ घुटः प्रथमोऽशिट इत्येतेषामनुवृत्तिः । विरामे इति वैषयिकी सप्तमी, तथा च विरामविषयस्याऽशिटो घुट इत्यर्थः । विरामश्वोच्चारणाभावः । न च यत्र चैत्रेण वागित्युच्चारितं तदनन्तरमेव मैत्रेण घट इत्युच्चारितम्, तत्र विरामो न स्यादुच्चारणाभावस्याभावादिति वाच्यम्, वर्णविशिष्टाभावस्य विरामत्वात्, अभावे वर्णवैशिष्ट्यश्च स्वकर्मकोच्चारणकर्तृपुरुषोच्चारितवर्णप्रतियोगि कत्वम्, अर्धमात्राधिककालाव्यवायेन स्वकर्मकोच्चारणकर्तृपुरुषोच्चारितवर्णावधिकपूर्वत्वाभाववत्वमेतदुभयसम्बन्धेन । तथा चोक्तस्थले उभयसम्बन्धेन वर्णविशिष्टाभावस्य सत्त्वान्न विरामत्वक्षतिः । वक्तीति वाचू, 'घुटस्तृतीय: ' चजः कगं ' विरामे वा ॥ न, सन्धानं सन्धिः, विरामे इत्यनुवर्तते । कार्यिनिमित्तयोर्यदाऽतिशयित सन्निधिर्विवक्ष्यते तदैव सन्धिर्भवति । भावार्थश्च पदधातूपसर्गसमासानां नियमेनैकप्रयत्नोच्चार्यत्वान्नित्यसमुदितत्वाच्च विरामाभावान्नित्यं संहिता भवति, यथा देवेन, उपैति परमेश्वरः इति । वाक्ये तु संहिता विवक्ष
6
6
न
·