SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः ] . अवचूरिपरिष्कारसहितायाम् । ६७ न्धिविरामे न स्यात् । दधि अत्र, तद् लुनाति ॥ रः पदान्ते विसर्गस्तयोः ॥५३।। पदान्तस्थस्य रस्य तयोविरामाघोषयोर्विसर्गः स्यात् । वृक्षः, खः, कः कृती । पदान्त इति किम् ? ईते ॥ ख्यागि ॥५४॥ पदान्तस्थस्य रस्य ख्यागि परे विसर्ग एव स्यात् । कः ख्यातः, नमः ख्यात्रे ॥ शिट्यघोषात् !!५५।। अघोषात्परे शिटि परतः धीना, विरामविवक्षया न सन्धिः, अविरामविवक्षया च सन्धिरिति । अनिरामस्तु स्वारसिकार्धमात्राकालव्यवधानेनोच्चारणम् । ततोऽधिकमात्राकालेनोच्चारणे न साधुत्वम नापि बोध इष्यते तज्ज्ञैः। उक्तञ्च, संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सः विवक्षामपेक्षते, इति ॥ २ः षष्ठी, पदान्ते विसर्गः तयोः सप्तमी ।। तत्पदेन विरामाघोषयोः परामर्शो विरामविषयेऽघोषे वा परत इत्यर्थः । र इत्यनेन ' निरनुबन्धग्रहणे सामान्यस्य ग्रहणमि 'ति न्यायेन रोः रेफस्य च ग्रहणम् । वृक्ष इति, विरामविषये रोरुदाहरणम् , स्व इति विरामविषये रेफस्योदाहरणम् । कः कृतीत्यघोषे परे रोरुदाहरणम् । ईरिक् गतिकम्पनयोः, वर्तमाने ते, अत्र रेफस्य पदान्तेऽभावान विसर्गः । अत्राऽप्य. न्वित्यधिकाराद्गीरित्यादौ दीर्घ कृते विसर्गः, अन्यथा हि पूर्व विसर्गे कृते इरुरोरभावाही? न स्यात् ॥ ख्यागि ॥ र: पदान्ते विसर्ग इत्यनुवर्तन्ते । चक्षिक् व्यक्तायां वाचि, ख्यायते स्म तप्रत्ययः, 'चक्षो वाची 'ति ख्यागाऽऽदेशः, चष्ट इति ख्याता ‘णकतृचौ, ' तस्मै ख्यात्रे । पूर्वेणैव सिद्धे नियमार्थमिदम', तेन जिह्वामूलीयो न भवति, ख्याक् प्रकथन इत्यस्य जिह्वामूलीयोऽपि, सूत्रे ख्याग् भणनात् ॥ शिटि, अघोषात् ।। रः पदान्ते विसर्ग इत्यभिसम्बध्यते । अघोषादिति शिटो विशेषणम् न तु रेफस्य, अघोषात्परस्य पदान्ते विद्यमानस्य रेफस्यासम्भवात् , अत
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy