SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६८ सिद्धहेमलघुवृत्तौ . [ प्रथमाध्यायस्यः पदान्तस्थस्य रस्य विसर्ग एव स्यात् । पुरुषः सरुकः, सप्पिः प्साति, वासः क्षौमम् , अद्भिः प्सातम् ॥ व्यत्यये लुग्वा ॥५६॥ शिटः परोऽघोष इति व्यत्ययस्तस्मिन्सति पदान्तस्थस्य रस्य लुग्वा स्यात् । चक्षु श्च्योतति, चक्षुश्श्योतति चक्षुः, श्च्योतति ॥ अरोः सुपि रः॥५७॥ रोरन्यस्य रस्य सुपि परे र एव स्यात् । गीर्षु, धूर्षु, अरोरिति किम् ? पयस्सु ॥ वाहर्पत्यादयः॥५८।। अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः । अर्हपतिः, अहः पतिः । एवोक्तमघोषात् परे शिटीति । त्सरौ कुशल: ' को प्रादेरि 'ति कप्रत्ययः, पुरुषः त्संरुकः, ' चटत ' इति सत्वप्राप्तौ नियम्यते । सर्पिस् प्साति, अत्र 'वेसुसोऽपेक्षायामि'ति षत्वे प्राप्ते नियम्यते । वासः क्षौमम् , अद्भिः प्सातम् , अत्र ' कखे 'ति ४ क ( पौ न भवतः ।। व्यत्यये लुग, वा ॥ रः पदान्ते इति वर्तते । व्यत्ययश्च वैपूरीत्यम् , तच्च शिटः परोऽघोष इति । चक्षुस् थ्योततीत्यादौ चक्षुस्, 'सो रुः' इति कृतस्य रोरनेन लोपः, पक्षे तु 'शषसे' इति सस्य शः । पक्षे विसर्गः ॥ न रुः अरुः तस्य, सुपि, रः प्रथमा | र इत्यनुवर्तते, गिर् सु 'रः पदान्ते' इति विसर्गे प्राप्तेऽनेन रकार एव भवति, कार्यान्तरवाघनार्थं। नियामकमिदं सूत्रम्, ‘पदान्ते इति दीर्घः, 'नाम्यन्तस्थे 'ति सस्य षः, एवमग्रेऽपि । पयस्सु इत्यादौ ' सो रुः', 'रः पदान्ते ' 'शषसे शषसं वा' पयः सु। अत्र ' सो रुः' इति कृते 'नाम्यन्तस्थेति सूत्रेण रकारस्यान्तस्थत्वात्तत्परः शकारः कथं न भवति, उच्यते, 'र: पदान्ते ' इत्यस्य नित्यत्वात् ‘परान्नित्यमि "ति न्यायेन 'नाम्यन्तस्थे 'ति बाधनात् । अत्र रुप्रतिषेधः 'निरनुबन्धग्रहणे सामान्येने ति न्यायं सूचयति । र: पदान्त इत्यत्र सामान्येनोक्तात् रशब्दादुभयस्य प्राप्तौ सत्यां हि प्रतिषेधः सार्थकः स्यात् । रशब्देन द्वयोः प्राप्तिश्चास्य 'न्यायस्य सद्भावे एवेति ॥
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy