SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः ] अवचूरिपरिष्कारसहितायाम् । गीपतिः, गीः पतिः । प्रचेता राजन् , प्रचेतो राजन् ॥ शिट्याद्यस्य द्वितीयो वा ॥५९।। प्रथमस्य शिटि परे द्वितीयो वा स्यात् । रूषीरम् , क्षीरम् । अफ्सराः अप्सराः ॥ तवर्गस्य श्ववर्गष्टवर्गाभ्यां योगे चटवौ ॥६०॥ तवर्गस्य शचवर्गाभ्यां षटवर्गाभ्यां च योगे यथासङ्ख्यं चवर्गटवर्गों स्याताम् । तच्शेते, भवाशेते, तच्चारु वा, अहर्पतिरादिर्येषान्ते अहर्पत्यादयः । अहर्पत्यादयो वा भवन्तीति कथनात् निपातः फलति । अह्नां पतिः, ' रो लुप्यरि' इति नस्य रः । गिरां पतिः गीर्पतिः, ' पदान्ते ' इति दीर्घः, उभयत्र विसर्गाऽभावो निपात्यते । प्रकृष्टं चेतो यस्य राज्ञोऽसौ, तस्याऽऽमन्त्रणं हे प्रचेता राजन् ! — सो रुः ' अनेन उत्वाभावो वा निपात्यते । ' रो रे लुगि 'ति दीर्घलुगौ, पक्षे ' घोषवति ' उत्वम् , हे प्रचेतो राजन् !। पृथग सम्बोधनयोः सतः प्रचेता ! राजन् ! वा । निपातनादेव पदान्ताधिकारो निवृत्तः ॥ बहुवचनमाकृतिगणार्थम् । आकृतिः सादृश्यम् , तत्प्रधानो गणः आकृतिगणः, अथवाऽऽकृति. शब्देन जातिरुच्यते सा यथा निखिलव्यक्तिव्याप्ता तथा यः प्रचुरशब्दविषयं व्याप्नोति सः जातिसादृश्यादाकृतिगणः ॥ शिटि, आद्यस्य, द्वितीयः, वा ॥ क्षीरमित्यत्र वर्गादिभूतस्य ककारस्य शिटपरत्वाद्वा खकारः । एवमप्सरा इत्यादिष्वपि ॥ तवर्गस्य, श् च चवर्गश्च श्चवर्गम् , ए च टवर्गश्च ष्टवर्गम् , श्ववर्ग च ष्टवर्ग च श्चवर्गष्टव, ताभ्याम , योगे, चश्च टश्च चटौ, तयोः वर्गों चटवर्गों ।। समुदायद्वयापेक्षया यथासङ्ख्यार्थं तृतीयाद्विवचनम् । अत्र योगग्रहणाभावेऽवर्णस्येवर्णादिनेत्येव सहार्थतृतीयायां श्चवर्गादेरपि स्थानित्वं स्यात् , दिग्योगलक्षणपञ्चम्यङ्गीकारे 'पञ्चम्या निर्दिष्टे परस्य'ति न्यायेन परस्यैव तवर्गस्य स्यान्न तु पूर्वस्येति योगग्रहणम् । योगोऽत्र पूर्वतः परतो वा तत्र परत इत्यस्योदाहरणं तत् शेते, यद्यपि
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy