SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः ] अवचूरिपरिष्कारसहितायाम् । स्थस्य रो?षवति परे लुक् स्यात् , स च न सन्धिहेतुः। देवा यान्ति, भो! यासि, भगो! हस, अघो! रद ।। व्योः ॥२३॥ अवर्णात्परयोः पदान्तस्थयोर्वययो?षवति परे लुक् स्यात् , स चासन्धिः । वृक्षवृश्चमव्ययञ्चाऽऽचक्षाणो वृक्षव् , अव्यय, वृक्षयाति, अव्ययाति ।। स्वरे वा ॥२४॥ अवर्णभोभगोअघोभ्यः परयोः पदान्तस्थयोर्वययोः स्वरे परे लुग्वा स्यात् , स चासन्धिः । पट इह, पटविह । वृक्षा इह, वृक्षाविह । त आहुः, तयाहुः । तस्मा इदम् , तस्मायिदम् । भो अत्र, न्तरं कस्यापि सन्धेरप्राप्तेरसन्धिग्रहणमुत्तरार्थं विज्ञेयम् , लुक्सन्नियोगशिष्टत्वज्ञापनाय चात्रोपादानम् , तेन यत्र लुक् तत्रैवासन्धिः, यत्र च लुग्निवृत्तिस्तत्रासन्धिरपि निवर्तते ॥ व् च य च व्यौ तयोः ।। घोषवति, अवर्णात् लुगिति चाऽनुवर्तन्ते । वृक्षं वृश्चतीति वृक्षवृद्, कि , वृक्षवृश्चमाचष्टे वृक्षवयति 'णिज बहुलं' णिज्, 'अन्त्यस्वरादेः, ' अन्त्यस्वरलोपः, वृक्षवयतीति ' मन्वन्क्वनिप् विच् ' इति विच्प्रत्ययः अन्यथा विपि ऊट् स्यात् , ‘णेरनिटि ' णिग्लोपः, ' अप्रयोगीत् ' विचूलोपः, इति सिद्धं वृक्षव् । अव्ययमाचष्टे अव्ययति, अव्ययतीति अव्ययू ॥ स्वरे, वा ॥ अवर्णभोभगोऽघो, व्योः इति पदानि वर्तन्ते । पटु आमन्त्र्ये, ' ह्रस्वस्य गुणः, ' इह अव्ययम् , अवादेशः, अनेन लोपः, गुणे प्राप्ते असन्धिः । ते आहुः, तस्मै इदम् | भोस् अत्र, इत्यत्र · सोरुः ' ' रोयः' ' स्वरे वा' इति यलोपः । एवमग्रेऽपि || न स्पष्टौ अस्पष्टौ, अवर्णात् , तु, न उब् अनुन् तस्मिन्, वा ॥ अवर्णभोभगो, व्योः स्वरे इति पदान्यनुवर्तन्ते । अस्पृष्टावित्येको योगः, अवर्णात्त्वनुनि वेत्यपरो योगः । पूर्वयोगे वेति न सम्बध्यते, अत एव नित्यमस्पृष्टविधानम् । सर्वमिदमवर्णपदोत्तरं तुशब्दोपादानात्सूचितम् । पटो उच् , अवादेशः । उत्तरयोगेनावर्णात्परयोः यवयोः उजवर्जस्वरे परे एव
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy