SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ५४ सिद्धहेमलघुवृत्तौ ... .[ प्रथमाध्यायस्य तति ॥ अतोऽति रोरुः ॥२०॥ आत्परस्य पदान्तस्थस्य रोरति परे उर्नित्यं स्यात् । कोऽर्थः ॥ घोषवति ॥२१|| आत्परस्य पदान्तस्थस्य रो?षवति परे उः स्यात् । धर्मो जेता ॥ अवर्णभोभगोडघोलुंगसन्धिः ॥२२॥ अवर्णाद्भोभगोअघोभ्यश्च परस्य पदान्तकार्येणात्र भाव्यमिति शङ्कायां ‘अन्तरङ्गं बहिरङ्गादिति ' न्यायः पवर्तते, पदद्वयापेक्षत्वाद्वत्वं बहिरङ्गमेकपदान्तर्वर्त्तित्वात्. ' अवर्णस्ये 'त्योत्वं अन्तरङ्गमित्यन्तरङ्गस्य बलवत्त्वादोत्वमेव प्रथमं कार्यम् । ' अतोऽती 'ति निर्देशादेव सानुबन्धस्य रस्यैव ग्रहणम् , न तु रुवर्णस्य, तेन तरु अयनमित्यत्र न रोरुः, सानुबन्धग्रहणाञ्च निरनुबन्धस्य रेफस्य नोत्वम् , तेन प्रातर् अत्र, अत्र न रस्य उः ॥ घोषोऽस्यास्तीति घोषवत् तस्मिन् ॥ अतो रो रुः इत्यनुवर्तन्ते, जयतीति जेता, धर्म स् जेता, 'सो रुः' 'घोषवति' इति रोः उः, 'अवर्णस्ये' त्योत्वम् , धर्म रु जेतेत्यत्र अवर्णभोभगो' इति रोः लुक् प्राप्तः, तथापि 'घोषवती' त्येवात्र प्रवर्तते, दीर्घाऽऽकारविषये 'अवर्णभोभगो' इत्यस्य चरितार्थत्वात् सावकाशत्वं तस्य । हस्ताकारस्थलेऽपि तस्य प्रवृत्तौ ‘घोषवती'ति सूत्रं निरवकाशं स्यात्, तथा च 'निरवकाश सावकाशादलीयमिति न्यायेन 'घोषवती' त्येव प्रवर्तते ॥ अवर्णश्च भोश्च भगोश्च अघोश्च तस्मात् , लुक्, न सन्धिः असन्धिः ॥ एते त्रयः लुप्तसकाराः भोस् भगोस् अघोस्, इत्येतेषामनुकरणशब्दा ज्ञेयाः, भोस् इत्यादयश्च आमन्त्र्यार्थद्योतका अव्ययाः । ननु लुकः सन्धिरूपत्वेऽसन्धिरिति प्रतिषेधो युक्तः स्यात् , यावता च लुक् सन्धिरूप एव न भवति, अभावरूपत्वात् , तत्कथमसन्धिरिति शङ्कायामुक्तम् , स च न सन्धिहेतुरिति । रोः घोषवतीत्यनुवर्तते । देवा यान्ति, 'सो रुः' अनेन लुकू । भगोस् हस!, हसे हसने, पञ्चमी हि प्रत्यये हस!। अघोस् वद् व्यक्तायां वाचि, .पञ्चमी हि वद । अत्र सर्वत्र लुगन
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy