________________
तृतीयपादः] अवचूरिपरिष्कारसहितायाम् । ५३ अश्चः श्चावयवश्चेत् शो न स्यात् , षड्त्सीदन्ति, षट्सीदन्ति । भवान्त्साधुः, भवान्साधुः । अश्च इति किम् ? षट्च्योतन्ति । नः शि ञ्च् ॥१९॥ पदान्तस्थस्य नस्य शे परे ञ्च् वा स्यात् , अश्वः । भवाञ्च्छूरः, भवाञ्च्शूरः, भवाशूरः । अश्व इत्येव ? भवाच्योनः षष्ठी, शि सप्तमी, ग्व् ॥ अश्व इति पदं सप्तम्यन्ततया विपरिणम्याऽनुवर्तनीयम्, तच्च शीत्यस्य विशेषणम् । श्वघटकभिन्ने शकार इत्यर्थः । वादेशबलात् चस्य कत्वं 'पदस्ये 'ति च न भवति, 'धुटो धुटि स्वे वे 'ति तु भवत्येव, तेन भवाञ्छूर इत्यपि भवति । भवान् शूरः, इत्यत्रानेन सूत्रेण नकारस्य ञ्चादेशे, 'प्रथमादधुटी 'ति शकारस्य छादेशे भवाञ्छूरः, छोऽभावे भवाञ्च् शूरः, श्वादेशाभावे भवान् शूर इत्यत्र ‘तवर्गस्ये 'त्यनेन नस्य बत्वे भवाञ् शूर इति वि. कल्पद्वये त्रैरूप्यं सर्वत्र बोध्यम् । भवान् श्योततीत्यत्र तु तवर्गस्ये 'ति नस्य ब् ॥ अतः पञ्चमी, अति सप्तमी, रोः षष्ठी, उः प्रथमा ।। सूत्रेषु सामान्येन प्रथमं कार्यो, ततो निमित्तं, ततः कार्यमिति निर्देशक्रमो दृश्यतेऽत्र तु कार्यिणः रोः पूर्वमतीति निमित्तस्योपादानेन क्रमोल्लङ्घनं नवेत्यधिकारनिवृत्ति सूचयति । किम् स् , किमः काऽऽ. देशः, सकारस्य · सो रुः,' करु अर्थः, रोर्य इति सूत्रं बाधित्वानेन सूत्रेण रोरुत्वम् , रोर्य इत्यस्य सामान्यस्वरनिमित्तकत्वादस्य च विशेषस्वरनिमित्तकत्वात् । सर्वत्राऽपि · विशेषेण सामान्यं बाध्यते नतु सामान्येन विशेषः' इति न्यायात् । क उ अर्थः, 'अवर्णस्ये 'ति ओकारः, को अर्थः, 'एदोतः' इत्यकारलोपः, कोऽर्थः । ननु क उ अर्थ, इति जाते न ' अवर्णस्ये 'ति सूत्रं प्रवर्तते, 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्ये 'ति न्यायप्रवृत्तेरिति चेन्न, 'अतोऽति' इति सूत्रनिर्देशादेवोक्तन्यायस्यात्राप्रवृत्तेः । तथा क उ अर्थ इत्यत्र पूर्व गुणः, उ अर्थः, अत्र 'इवर्णादेरि 'ति वत्वं च प्राप्नोति, कतरेण