SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य राजौ किबन्तेऽनुस्वाराभावः स्यात् । सम्राट् , सम्राजौ ॥ डोः कटावन्तौ शिटि नवा ॥१७॥ पदान्तस्थयोर्डणयोः शिटि परे यथासह्वयं कटावन्तौ वा स्याताम् । प्राकछेते, प्राशेते, प्राशेते । सुगण्छेते, सुगण्टोते, सुगणशेते ॥डः सः त्सोऽश्वः॥१८॥ पदान्तस्थाभ्यां डनाभ्यां परस्य सस्य 'स' इति तादिः सो वा स्यात् । दिवत् । प्राश्चतीति प्राङ्, किप्, शी स्वप्ने, प्राङ् शेते, अनेन सूत्रेण कोऽन्तः, प्राङ्क शेते, 'प्रथमादधुटि शश्छः' इति सूत्रेण शका. रस्य छत्वम् , प्राङ् छेते, कोऽन्ताभावे तु प्राङ् शेते, इति त्रैरूप्यम् । कटयोर्विधानसामर्थ्यात् 'धुटस्तृतीय' इति न प्रवर्तते, एवं सुगणू शेते इत्यत्रापि । सु गण सङ्ख्याने, सुष्ठु गणयतीति विपि सुगण ॥ इ च न च इ, तस्मात् , सः षष्ठी, त्सः प्रथमा, न श्च् अश्च तस्य । श्ववर्जनात् ज्ञापयति ‘सकारापदिष्टं कार्य तदादेशस्य शकारस्याऽपी'ति न्यायम् , अन्यथा शकारस्य सत्वप्राप्तिरेव नास्तीति तद्वर्जनं व्यर्थ स्यात् । षष् ‘डतिष्णः सङ्खाया लुबि'ति जस्लोपः । 'धुटस्तृतीयः' षस्य डः । षड्लं विशरणगत्यवसादनेषु। पड् सीदन्तीत्यत्रानेन सूत्रेण डात्परस्य सस्य त्साऽऽदेशे षड्त्सीदन्तीति रूपम् । अत्र डकारनिर्देशात् ' अघोषे प्रथमोऽशिटः' इति डस्य टो न भवति पाणिनीये तु भवति । 'तवर्गस्ये 'ति डात्परस्य तकारस्य न टकारः, ‘पदान्तादृवर्गादिति सूत्रेण निषेधात् । त्सादेशाभावे तु 'अघोषे' इति डस्य टः, षट् सीदन्ति । भवान् त्साधुरित्यत्र 'नोऽप्रशाने 'ति सूत्रेण नकारस्यानुस्वारानुनासिकपूर्वः सकारो न भवति, धुट परस्य तकारस्यात्र स. त्त्वेनाधुटूपरत्वाभावात् । भ्युत क्षरणे श्योतति, अत्र श्वग्रहणाभावे षड् श्योततीत्यत्र यद्यपि डात्परः सो नास्ति, तथापि 'सस्य शषा' वित्यनेन सकारस्थानिकशकारस्य भावादतः ' सकारापदिष्टमि 'ति न्यायेन त्सादेशस्य प्राप्तिः अयं धातुः सोपदेशः, अतः श्ववर्जनं कृतम् ।।
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy