SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः अवचूरिपरिष्कारसहितायाम् । चंक्रम्यते, चङ्गम्यते । ववम्यते, ववम्यते । त्वंकरोषि, त्वङ्करोषि । कंवः, कम्वः ॥ मनयवलपरे हे ॥१५॥ मनयवलपरे हे पदान्तस्थस्य मस्यानुस्वारानुनासिकौ स्वौ क्रमात् स्याताम् । किं मलयति, किम्मलयति । किंहुते, किन्हुते, किंह्यः, किम्यः, किंवलयति, किव्हलयति, किंहादयते, किल्हादयते ॥ सम्राट् ॥१६॥ समो मस्य नामिति ' न प्रवर्तते, वचननिर्देशेन तुल्यत्वाभावात् । ताविति हि द्विवचनम् , मुम इति चैकवचनमिति । क्रम पादविक्षेपे, कुटिलं क्राम्यति चङ्गम्यते । 'गत्यर्थात् कुटिले यङ्' । 'सन्यडश्चे' ति क्रमो द्वित्वं ' व्यञ्जनस्याऽनादे'लक्, आदिरलोपे 'कङश्चम् ' पूर्वस्य कस्य चः । 'मुरतोऽनुनासिकस्य'ति पूर्वस्य मोन्तः । मकारस्याऽनुस्वारः चंकम्यते । पक्षे स्वः अनुनासिको भवति चङ्गम्यते । टुवम् उद्गिरणे, भृशं पुनर्वा वमति वंवम्यते, पूर्ववत्, अनुस्वारे तु वंवम्यते, अनुनासिक. पक्षे तु यवलानां सानुनासिकनिरनुनासिकभेदवत्त्वेन स्वः सानुनासिको वः भवति, तथा च वव्वम्यते, त्वं करोषि, त्वङ्करोषि, इदं पदान्तस्थस्य मकारस्योदाहरणम् । कम् सुखमस्यास्तीति 'कंशंभ्यामि'ति वः प्रत्ययः ॥ मश्च नश्च यश्च वश्च लश्च मनयवलाः, ते परे यस्मात्तस्मिन् , हे सप्तमी । तौ स्वौ इत्यनुवर्तेते । स्वश्च मनयवलानां बोध्यः । ह्वल ह्मल चलने, ह्वलयति मलयति । ढुङ् अपनयने हुते । ह्य इत्यव्ययम् । हादैङ् सुखे च हादयते ।। सम्-राजगू दीप्तौ, सामस्त्येन राजते शोभत इति सम्राट्, विप् , 'यजसृजमृजेति जः षः, धुटस्तृतीयः इति षस्य डः, 'विरामे वा' डस्य टः । अत्र 'तौ मुमो व्यञ्जने स्वा' विति सूत्रेण प्राप्तस्यानुस्वारस्य निषेधोऽनेन क्रियते । रेफस्य तु सानुनासिकस्वस्याभावान्नानुनासिकसम्भवः । एकवचनस्यातन्त्रत्वात् द्विवचनादावपि भवति ॥ ङ् च णू च ौ तयोः, कश्च टश्च कटौ अन्तौ, शिटि, नवाः॥ अत्रान्तशब्दः आगमबोधकः, नोन्त इत्या
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy