________________
तृतीयपाद: ]
अवचूरिपरिष्कारसहितायाम् ।
४९
अनुस्वारानुनासिकौ च पूर्वस्य । नृपाहि नृपाहि, नृन्पाहि नृपाहि ॥ द्विः कानः कानि सः || ११ || 'कानः ' किमः शसन्तस्यानुकरणम्, द्विरुक्तस्य कानः कानि परे सः स्यात्, अनुस्वारानुनासिकौ च पूर्वस्य । कांस्कान्, कस्कान् । द्विरिति किम् ? कान्कान् पश्यति ॥ स्सटि समः ||१२|| समः स्सटि परे सः स्यात्, अनु
1
1
"
द्वौ वारावस्य द्विः, स चाऽव्ययम्, कानः षष्ठी, कानि सप्तमी, सः प्रथमा || अनुस्वारानुनासिकौ पूर्वस्येत्यनुवर्तते । ' षष्ठ्यान्त्यस्ये 'ति परिभाषया षष्ठीनिर्देशेन विहितं यत् कार्यं तदन्त्यस्य कानो नकारस्य भवति, न चानुस्वारस्य व्यञ्जनत्वात् ' पदस्ये 'ति संयोगान्त - लोपः स्यादिति वाच्यम्, मुख्यव्यञ्जनसंयोगस्यैव 'पदस्ये 'त्यत्राss. श्रितत्वात्, अस्य तु सामर्थ्यप्रापितत्वेन गौणव्यञ्जनत्वात् । कांस्कान् वीप्सायां द्विर्वचनम् कान्कानित्यत्रैकः प्रश्नेऽन्यस्तु क्षेपे, रस्याधिकारेणैव सिद्धे सविधानं रुत्वबाधनार्थम् तेन कांस्कानित्यत्र न सकारस्य रुत्वम् ॥ सकारेणोपलक्षितः सद् स्सट् तस्मिन्, समः षष्ठी || अनुस्वारानुनासिकौ, पूर्वस्य सः इति चानुवर्तन्ते । स मित्युपसर्ग एव ग्राह्यः, न तु षम् वैकुव्ये इत्यस्य क्किबन्तस्य समः । ' संस्स्कृते भक्ष्ये ' इति सूत्रप्रयोगात् । संस्करोतीति विग्रहे ' णकतृचा 'विति तृच्प्रत्यये सम् कर्त्तेति स्थिते, ' संपरे कृगः स्टू' इत्यनेन कृगः पूर्वं सटि अटावितौ सम् स कर्ता, इति जातेऽनेन सूत्रेण मकारस्य सकारे पूर्वस्यानुस्वारानुनासिकौ च संस्स्कर्ता, सँस्स्कर्ता । अनुस्वारस्य व्यञ्जनत्वात् घुट घुट स्वे वे 'ति पक्षे सकारलोपे द्विसकारम्, एकसकारश्च संस्कर्ता, संस्स्कर्तेति रूपद्वयं द्रष्टव्यम् । संस्करणं संकृतिः, स्त्रियां क्तिः, गर्गादिपाठादत्र रसद् न भवति । सञ्चस्कारेत्यत्र तु चकारेण व्यवधानान्न मकारस्य
"