________________
४८
सिद्धहेमलघुवृत्तौ . [प्रथमाध्यायस्य स्थुडति, भवास्थुडति । अप्रशानिति किम् ? प्रशाञ्चरः । अधुट्पर इति किम् ? भवान्त्सरुकः ॥ पुमोऽशिट्यघोषेऽख्यागि रः ॥९॥ पुमिति पुंसः संयोगलुक्यनुकरणम् , अधुट्परे अघोषे शिख्यागिवर्जे परे पुमित्येतस्य रः स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य । पुंस्कामा, पुंस्कामा । अशिटीति किम् ? पुंशिरः । अघोष इति किम् ? पुंदासः । अख्यागीति किम् ? पुंख्यातः । अधुट्पर इत्येव पुंक्षारः॥ नृनः पेषु वा ॥१०॥ 'नृनिति शसन्तस्यानुकरणम् , नृनः पे परे रो वा स्यात् ,
स्वारः आगमः, अनुनासिकश्चादेशः । पुमः षष्ठी, न शिट् अशिट् तस्मिन् , न विद्यते घोषो ध्वनिर्यस्य स तस्मिन् , न ख्याग् अख्याग् तस्मिन् , रः प्रथमा ॥ अनुस्वारानुनासिकौ च पूर्वस्याधुटपर इत्यनुवर्तते । पुमिति पुंसः कृतसंयोगान्तलोपस्यानुकरणम् । पुमांसं कामयतीत्येवंशीला पुंस्कामा, ' शीलिकामिभिक्षाचरी 'ति णप्रत्ययः, 'पदस्ये 'ति पुम्सः सलोपः, अनेन मः रः पूर्वस्य चाऽनुस्वारानुनासिकाविति, ततः 'रः कखपफयो'रिति प्राप्तौ : पुंस' इति रस्य सः । पुंसः शिरः, सलोपः, 'शिड्हे ऽनुस्वारः' । पुंसो दासः, 'पदस्ये 'ति सलोपः । चक्षिक् व्यक्तायां वाचि, ख्यायते स्म ख्यातः, क्तः, पुंसा ख्यातः, ' चक्षो वाचि क्शांग ' ख्यागादेशः । ख्याग्वर्जनात् ख्याक् प्रकथन इत्यस्मात् पुंख्यातः पुँख्यात इति स्यादेव । पुंसः क्षारः, अत्र धुट्परत्वान्न रः ॥ नृनः षष्ठी, पेषु, वा ॥ बहुवचनत्वं व्याप्त्यर्थम् , धुटि अधुटि वाऽस्य प्रवृत्तेस्तेनाऽधुट्पर इति निवृत्तम् । नृनित्यस्यैवाऽऽदेशस्येष्टत्वात् शसन्तस्य नृशब्दानुकरणं कृतम् । अनुवृत्तिः पूर्ववत् , नून् पाहि, अत्रानेन रत्वे, विकल्पेन च रस्य ८ पाऽऽदेशे पूर्वस्यानुस्वारानुनासिकाभ्याम् , नं ८ पाहि, न) पाहि इति भवति, ८ पाऽऽदेशाभावे विसर्गे च नः पाहि, नॅ: पाहि इति भवति । रादेशाभावे च नन् पाहीति पञ्च रूपाणि ।।