SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः ] अवचूरिपरिष्कारसहितायाम् । ४७ श्छन्नः । कष्टः, कष्ठः । कस्तः, कस्थः ॥ नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुटपरे ।।८॥ पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य चटतेषु सद्वितीयेषु अधुट्परेषु शषसा यथासत्यं स्युः, अनुस्वारानुनासिकौ चागमादेशौ पूर्वस्य क्रमेण स्याताम् । भवांश्वरः, भवाँश्वरः । भवांश्छ्यति, भवाँ छ्यति । भवाष्टकः, भवाँष्टकः । भवांष्ठकारः, भवाँष्ठकारः । भवांस्तनुः, भवाँस्तनुः । भवांविधस्य रेफस्य ग्रहणम् । चर भक्षणे चरतीति चरः, 'चरेष्टः ' इति टप्रत्ययः । छदणू संवरणे, छाद्यते स्म छन्नः, क्तप्रत्ययः, 'णौ दान्तशान्तपूर्णे' ति छन्नेति निपातः । कष्टः टः ध्वनौ, कष्ठः ठः ध्वनौ, कस्तः तः तस्करे, कस्थः थः पर्वते । नः षष्ठी, प्रशाम्यतीति प्रशान् , न प्रशान् अप्रशान् तस्य, अनुस्वारश्च अनुनासिकश्च, च, पूर्वस्य, न धुत् अधुट, अधुट् परो यस्मात् तस्मिन् । शषसं, चटते सद्वितीये, इत्यनुवर्तन्ते । भातीति भवान् , भातेर्डवतु । भवान् चर इति स्थिते नकारस्य शकारः, पूर्वस्यानुस्वारागमे भवांश्चर इति रूपम् । पूर्वस्यानुनासिकादेशे च भवॉश्चर इति रूपम् , एवमग्रेऽपि । भवान् व्यति, भवान् टंकः, टंकयतीति टंकः, ठकारः शून्यः, तनुः कृशः, थुडत् संवरणे, प्रशान् चरः, 'तवर्गस्य श्ववर्गे'ति नस्य अः, सरुः खगमुष्टिः, त्सरौ कुशलः त्सरुकः, 'कोऽश्यादे 'रिति कः । अत्र तकारस्य धुटपरत्वात्पूर्वोक्तं कार्यं न भवति, अधुटीत्युक्तौ चटते परतो योऽधुट् तस्मिन्परे नकारस्यैते भवन्तीति विपरीतार्थवारणायाधुट्पर इत्युक्तम् । अत्र नकारो लाक्षणिको न गृह्यते 'लक्षणप्रतिपदोक्तयोरिति न्यायात् , तेन त्वन् तत्रेत्यादौ नस्य सो न भवति । अयं नकारो 'तौ मुम' इत्यनेनानुनासिकशब्देन सामान्येन विहितः, अतो लाक्षणिकः, भवानित्यादौ तु नकारो नोन्त इत्यनेन नामग्राहं विहितत्वात् प्रतिपदोक्तः । अनु
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy