SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य सङ्ख्यं शषसा वा स्युः । कश्शेते, काशेते । कष्षण्डः, कापण्ढः । कस्साधुः, कःसाधुः ॥ चटते सद्वितीये ॥७॥ पदान्तस्थस्य रस्य चटतेषु सद्वितीयेषु परेषु यथासङ्ख्यं शपसा नित्यं स्युः । कश्चरः, कपुनर्वा ग्रहणमुत्तरत्र विकल्पनिवृत्त्यर्थम् । ननु शषसे सो वेत्येव सूत्र्यताम् , कर् षण्डः, कर शेते इत्यादौ रकारस्य सकारे ' सस्यशषौ' इति सूत्रेण यथायोगं शकारषकारी भवत इति कश्शेते इत्यादिसिद्धिर्भवति, एवमुत्तरसूत्रेऽपि कश्चरः इत्यादिरूपाणामेवमेव सिद्धिर्भवतीति नोत्तरार्थमपि तथा वक्तव्यम् । कश्शेते इत्यादौ 'धुटस्तृतीय' इति कर्तव्ये रुत्वस्यासिद्धत्वेन अंतश्शेते इत्यादौ च 'असिद्धं बहिरङ्ग' मिति न्यायेन शत्वस्याऽसिद्धत्वेन तृतीयत्वमपि न प्रवर्तते, अतः शषग्रहणं व्यर्थमिति चेन्न, · असिद्धं बहिरङ्गमन्तरङ्ग' इति न्यायस्याऽनित्यत्वज्ञापनाय तथोक्तेः, तथाऽ नेन सूत्रेण कृतानां शषसां विजातीयकार्यान्तराभावसूचनार्थमपि तथोक्तेः, तेन अंतःशेते इत्यादौ 'धुटस्तृतीय ' इति न भवति । विलक्षणत्वोक्त्या च सप्पिष्षु इत्यादौ षत्वं भवत्येव । शी स्वप्ने वर्तमाने ते शेते ॥ चश्च टश्च तश्च चटतं तस्मिन् , सह द्वितीयेन वर्तते यस्स सद्वितीयस्तस्मिन् । 'सहस्य सोऽन्यार्थ ' इति सहस्य सः ॥ रः, शषसमित्यनुवर्तते । अत्र लाघवात् चछटठतथेति सूत्रं कत्तुं शक्यं तथाऽपि ' यथासङ्घयमनुदेशस्समानां' सङ्ख्यया एकव्यादिवचननिर्देशेन चेति प्रकारद्वयेन मिथस्तुल्यानां पूर्वेषामुत्तरेपाञ्च पदानां सङ्खयानतिक्रमेणैवानुकूलं कथनं कार्यमित्यर्थकन्यायज्ञापनाय तथोक्तम् । न च चटते सद्वितीये इत्युक्तौ द्वितीयसहिताश्चटता यत्र भवन्ति तत्रैव शषसाऽऽदेशाः प्राप्ताः, न तु केवलानां चछटठतथामिति वाच्यम् , ' उदश्वरः' 'चरेष्टः ' 'व्रीह्यादिभ्यस्तः' इत्यादिसूत्रप्रयोगात् केवलेष्वेवाऽऽदेशात् । अत्राप्युभय
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy