________________
तृतीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
ष्टुप्श्रुतम् । अधुटीति किम् ? वाक्योतति ॥ रः कखपफयोः पौ ॥५॥ पदान्तस्थस्य रस्य कखे पफे च परे यथासङ्ख्यं × क ८ पौ वा स्याताम् । करकरोति, कः करोति । कखनति, कःखनति । क ृपचति कः पचति । क फलति कः फलति ॥ शषसे शषसं वा || ६ || पदान्तस्थस्थ रस्य शषसेषु परेषु यथा
४५
I
षड्त्सीदन्तीति जाते पुनः डकारस्य प्रथमो न भवति विधानसामर्थ्यात् तथा च वाक् शूर इति न सिध्येदतः प्रथमादित्युतम् । पाणिनीयास्तु षट्त्सीदन्तीति प्रथममिच्छन्ति । शूरयतीति शूरः, वाचा शूरः, त्रिष्टुभां श्रुतम् । वाक्च्योततीत्यत्र तु प्रथमात्परस्य शकारस्य सत्त्वेऽपि ततः परं अधुट् नास्त्यतो न छकारः ॥ रः, कश्व खश्व कखम्, पश्च फश्च पफम् कखं च पफंच कखपफे, तयोः, ५ कश्च पश्च क पौ, द्वयोर्द्वयोर्द्वन्द्वं विधाय पुनर्द्वन्द्वकरणाद्यथासङ्ख्यलाभ: । अत एव वृत्तौ कखे पफे इत्युक्तम् । क ृ पेत्यत्र ककारपकाराकारा उच्चारणार्थाः । अत्र ५ क इति जिह्वामूलीय: प इति उपध्मानीयः । 'किमः कस्तसादौ चे 'ति किमः कः, ' सोरुः ' कर् करोति, अत्र रः कखपफयोरित्य र इति निरनुबन्धग्रहणात् ' निरनुबन्धग्रहणे न सानुबन्धस्ये 'ति न्यायात्, सानुबन्धस्य रोः ँ क» पावादेशौ न स्यातामिति चेन्न, यतः ' अरोः सुपि रः' इति सूत्रे ' र: पदान्त ' इति सूत्रेण निरनुबन्धस्यैव रस्यानुवृत्त्या सानुबन्धस्य रोः रत्वाप्राप्तावरोरिति रुवर्जनाभिधानं व्यर्थं सत् ज्ञापयति ' निरनुबन्धग्रहणे सामान्यस्य ग्रहणमि' ति न्यायम् । ततश्च सामान्यस्य रकारस्य ग्रहणादत्र क x पादेशौ भवतः । ‘खनूग् विदारणे, तिव्, शब्, खनति । डुपचीश् पाके, तिव् पचति, फल निष्पत्तौ विसर्गापवादोऽयम् ॥ शश्च षश्च सश्च शषसं तस्मिन् वा ॥ रः इति वर्तते नवेत्यधिकारे सति
,
1