________________
४४
सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य स्यात् । वाङ्मयम् , षण्णाम् । 'च' उत्तरत्र वा अनुवृत्त्यर्थः ॥ ततो हश्चतुर्थः ॥३।। पदान्तस्थात् ततस्तृतीयात् परस्य हस्य पूर्वसवर्गश्चतुर्थो वा स्यात् । वाग्धीनः, वारहीनः । ककुब्भासः, ककुब्हासः॥ प्रथमादधुटि शश्छः ॥४॥ पदान्तस्थात् प्रथमात् परस्य शस्याधुटि परे छो वा स्यात् । वाक्छूरः, वाक्शूरः । त्रिष्टुप्छ्तम् , त्रि
स्तृतीयः' षड् 'तवर्गस्य'ति नस्य णः, षड् णाम् , अनेन डस्य णः ॥ 'अनामनगरीनवतेरि 'ति पर्युदासान टवर्गनिषेधः । असदधिका. रोप्यत्र वर्तते, तेन तन्मात्रमित्यादौ नलोपो न । अत्र 'अर्थवशाद्वि. भक्तिविपरिणाम' इति न्यायो न प्रवर्तते, 'तृतीयस्य पञ्चमे' इत्यतोऽनुवर्तमानस्य तृतीयस्येति पदस्य पञ्चम्यन्ततया विपरिणामे सिद्धेऽपि तत इत्यभिधानात् ॥ तस्मादिति ततः, हः षष्ठी, चतुणां पूरणश्चतुर्थः ॥ पदान्ते इति वर्तते तच्छब्देन तृतीयस्य परामर्शः । अत्र हकारस्य विधीयमानश्चतुर्थः हकारसमानस्थानिक एव स्यात् , स च वर्णो घकार एव, न तु भकारादिः । तथा च ककुब्भास इत्यादि न सिध्येत्तथा हस्थानिकचतुर्थस्यैवेष्टत्वे ततो हो घः' इत्येव ब्रूयालाघवात्तथा नोक्तमिति गुरुभूतचतुर्थपदोपादानाञ्च पूर्वसवर्गचतुर्थ एवात्र विवक्षित इति विज्ञायते, अत उक्तं पूर्वसवर्ग इति । हीयते स्म हीनः, वाचा हीनः वाग्घीनः । हसनं हासः, घ, ककुभां हासः, ककुब्भासः ॥ प्रथमात् , न धुट् अधुट् तस्मिन् , शः षष्ठी, छः प्रथमा, पदान्ते इति वर्तते, एवमग्रे। ननु पूर्वसूत्रेण तत इत्यनुवृत्त्या वाचा शूरः वाच् शूरः, 'धुटस्तृतीयः' 'चजः कग'मिति वाग् शूर इति जाते पदान्ततृतीयात् गकारात् परस्य शस्य छकारे कृते 'अघोषे प्रथम' इति गस्य ककारे वाक् छूर इति सिद्धौ व्यर्थ प्रथमादित्यभिधानम् , मैवम् , तृतीयाच्छे कृते ततस्तृतीयस्य प्रथमत्वाभावप्रसङ्गात्, यथा षट् सीदन्तीत्यत्र 'ड्णः सः त्सोऽश्चेति त्से कृते