________________
तृतीयः पादः। तृतीयस्य पञ्चमे ॥१॥ वेति, पदान्त इति, अनुनासिक इति चानुवर्तते । वर्गतृतीयस्य पदान्तस्थस्य, पञ्चमे परेऽनुनासिको. वा स्यात् । वाङवते, वाग्ङवते, ककुम्मण्डलम् , ककुब्मण्डलम् ॥ प्रत्यये च ॥२॥ पदान्तस्थस्य तृतीयस्य प्रत्यये पञ्चमे परेऽनुनासिको नित्यं
त्रयाणां पूरणस्तृतीयः, तस्य, पश्चानां पूरणः पञ्चमः तस्मिन् , वेति, पदान्त इति, अनुनासिक इति चानुवर्तते । तृतीयः पञ्चमश्च वर्गाणामेव ज्ञेयः तद्धर्मत्वादित्याशयेन वर्गकृतीयस्येत्युक्तम् । वाचू ङवते, " चजः कगं" कः, ‘धुटस्तृतीयः' इति गः । वाग् ङवते अनेन सूत्रेण गस्य पञ्चमो भवति, वर्गपञ्चमश्च बणनमेति पश्च वर्णास्तत्केनात्र भाव्यमिति शङ्कायां 'आसन्नः' आसन्नाऽनासन्नप्रसङ्गे यथास्वं स्थानार्थप्रमाणादिभिरासन्न एव भवतीति परिभाषया स्थानीभूत आसन्नः पञ्चम एव ङकारोऽत्र ग्राह्यस्तेन वाङवते इति । ककुभां मण्डलम् , 'धुटस्तृतीयः' ककुब् मण्डलम् , पूर्वोक्तरीत्या बस्य मः, 'तौ मुमः' इति तु नाऽत्र प्रवर्तते, 'अञ्वर्गा'दि. त्यतोऽसदधिकारस्य प्रयोजनवशादिष्टत्वात् 'धुटस्तृतीय' इत्यनेन विहितस्य तृतीयस्याऽसत्त्वेन तत्स्थानस्य मस्याऽप्यसत्त्वाद्वा । प्रती. यतेऽर्थोऽनेन सः प्रत्ययस्तस्मिन् , च । पदान्ते · अनुनासिक इत्यनुवर्तेते । च उत्तरत्र वाऽनुवृत्त्यर्थ इति । अयं चकारों हि पूर्वयोगस्यैवाऽ. स्य योगस्य शेषतां प्रतिपादयन्नात्मनि वेत्यस्य सम्बन्धाभावं वानुवृत्तेश्चोत्तरत्राव्यवधानं सूचयतीति भावः । वाचा विकारोऽवयवो वा वाच् मयम् , ' चजः कग 'मिति गः, अनेन गस्य ङः वाङ्मयम् , 'एकस्वरान्मयट्', षष् आम , ' सङ्ख्याना 'मित्यामो नाम् , ' धुट.