________________
द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । ४१ न्तेऽनुनासिकोऽनीदादेः ॥४१॥ अ इ उ वर्णानामन्ते विरामेऽनुनासिको वा स्यात् , नचेदेते 'ईदूदेविवचनम्' इत्यादि सूत्र
न विधीयते वत्वविधानवैयर्थ्यप्रसङ्गात् , नापि स्थानिन उच् रूपस्य निवृत्तिः क्रियते, तथा सति तस्यैव निवृत्तिविधानप्रसङ्गात् , तस्मादसन्नित्यस्य मुख्यार्थतापरित्यागेनाकृतवदिति गौणार्थोऽभ्युपेय इति । क्रुञ्च् कौटिल्याऽल्पीभावयोः क्रुश्चतीति क्रुङ्, ' अप्रयोगीत् ' किलोए:, ' दीर्घङया' सि लुक्, 'पदस्य ' चलोपः । 'युजंच क्रुच्चो नो ङः,' क्रुङ् उ आस्ते, अनेनोकारस्य वकारे कृतेप्य. सत्त्वात् ‘ह्रस्वाद् ङणनो' द्वित्वम् । ननु असद्भावमन्तरेणापि क्रुङ् उ आस्ते, इत्यवस्थायां प्रथमं द्वित्वे कृते, पश्चाद्वत्वे क्रुङवास्ते इति सिद्ध्यति, किमनेनाऽसद्भावेनेति चेन्न, 'हस्वान् ङणनो द्वे' इति सूत्रं यद्यपि परं तथापि वत्वस्य कृताकृतप्रसङ्गित्वेन नित्यत्वात् 'परान्नित्यमिति' न्यायेन द्वित्वं बाधित्वा वत्वस्य भावात् पश्चास्वराभावेन द्वित्वं न स्यादतोऽसद्भावः कृतः । असन्निति पदमुत्तरसूत्रं मुक्त्वा तृतीयस्य पञ्चमे' प्रत्यये चेति सूत्रयोः सम्बध्यते, 'अपेक्षातोऽधिकार' इति न्यायात् ॥ अश्च इश्च उश्च अयवः अइ. ऊनां वर्णः तस्य, अन्ते, अनु पश्चान्नासिकास्थानमुच्चारणीयं यस्यासावनुनासिकः, ईत् आदिर्यस्य स ईदादिः, न ईदादिरनीदादिस्तस्य ॥ सोस्यति व्यलीकमिति साम, कामयते इति कुमारी, अग्नीति, 'ईदेद्विवचन' मिति सूत्रसम्बन्धि, अमीति, 'अदोमुमी 'ति सूत्र सम्बन्धि, किमु इति च 'अव्वर्गात् स्वरे' इति सूत्रसम्बन्धि ज्ञेयम् ।। 'एदोतः' इति सूत्रात् पदान्ते इत्यस्यानुवृत्तिसद्भावेऽप्यत्र अन्तं ग्रहणं विरामप्रतिपत्त्यर्थम् , स च विरामे भवन् पदस्यान्ते भवति । केवलमुपसर्गस्य समासान्तर्वर्तिनश्च न भवति । विरामत्वाच सन्धिर्न, यथा