________________
४०
सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य रितौ परे सन्धिर्वा स्यात् । असन्धौ च उञ् ऊँ इति दीर्घोऽनुनासिको वा स्यात् । उ 'इति, ऊँ इति, विति ॥ अञ्वर्गात् स्वरे वोऽसन् ॥४०॥ अवर्जवर्गेभ्यः परः उञ् स्वरे परे वो वा स्यात् , स चासन् । क्रुङ्ङ्वास्ते, क्रुङ्कु आस्ते । असत्वाद् द्वित्वम् ।। अइउवर्णस्याधने सौ परे ‘ह्रस्वस्य गुणः' इति गुणे सिलोपे, तत इतिशब्दविवक्षायां सिनिमित्तकौकारस्य सत्त्वान्न सन्धिः, पक्षे अवादेशः । वेत्येव सिद्धौ नवाग्रहणमुत्तरत्रानुवृत्त्यर्थम् , एवञ्च सर्वत्र वेति पदस्य नानु. वृत्तिः, न वेत्युच्यमाने त्वनुवृत्तिज्ञेया ॥ ॐ, सूत्रत्वाद्विभक्तिलोपः। च, उञ् । अत्र चादिः इतौ नवेत्यनुवर्तन्ते । पक्षे 'ओदौतोऽवाव् ' बित् करणं स्वरूपपरिग्रहार्थ, तेन विकृतस्य न भवति, विकृतो सत्यां स्वरूपहानेः । एवञ्च द्वौ उकारौ, एको निरनुबन्धोऽपरः सानुबन्ध इति, तत्र यो निरनुबन्धस्तस्याहो इत्यत्रौकारादेशः इष्यते नापरस्य, अतोऽहो इत्यत्रावित एव कृतादेशत्वादिदं सूत्रं न प्रवर्तते; अत एव जान्वस्य रुजतीत्यत्रोत्तरसूत्रेण वत्वं सिद्धम् , उना सह जानोरुकारस्य दीर्धीभूतत्वात् , अथवाऽत्र सूत्रे उकारप्रश्लेषात् उ उञ् ऊम् इत्यु. कारेण उञो विशेषणात् उकाररूपस्य उनो ग्रहणात् अहो इत्यादौ न भवति, उत्तरत्र तु जात्याश्रयणात् दीर्घाभूतस्यापि जान्वस्य रुजतीत्यादौ वत्वं भवति । अथ ॐ इत्येव चादिषु पठ्यताम् , किमादेशेन, नैवम् , तस्यानितावपि प्रयोगः प्रसज्येत तनिषेधार्थमादेशवचनम् । यथा अह+उ, अत्र ' अवर्णस्य ' इत्यनेनोत्वे अहो, पश्चादोदन्त इत्यसन्धौ अहो इति, उ इति असन्धौ ॐ इति असन्धि. र्दीर्घानुनासिकाभ्यां भवति, विति, अत्र तु असन्ध्यभावे वत्वम् ।। नञ् अञ् , अञ् चासौ वर्गश्च, तस्मात् , स्वरे, वः, अस्तीति सन् न सन् असन् , ऊँन् इत्यनुवर्तते। 'पञ्चम्या निर्दिष्टे परस्ये 'ति परिभापाप्यत्र प्रवर्तते। अत्र वकाररूपादेशस्यासन्नित्यनेन स्वरूपेणाभावो